Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रार्थना ।
ब्रह्माणी कमलेन्दुसौम्यवदना माहेश्वरी लीलया
कौमारी रिपुदर्पनाशनकरी चक्रायुधा वैष्णवी ।
वाराही घनघोरघर्घरमुखी चैन्द्री च वज्रायुधा
चामुण्डा गणनाथरुद्रसहिता रक्षन्तु नो मातरः ॥
ब्राह्मी –
हंसारूढा प्रकर्तव्या साक्षसूत्रकमण्डलुः ।
स्रुवं च पुस्तकं धत्ते ऊर्ध्वहस्तद्वये शुभा ॥ १ ॥
ब्राह्म्यै नमः ।
माहेश्वरी –
माहेश्वरी प्रकर्तव्या वृषभासनसंस्थिता ।
कपालशूलखट्वाङ्गवरदा च चतुर्भुजा ॥ २ ॥
माहेश्वर्यै नमः ।
कौमारी –
कुमाररूपा कौमारी मयूरवरवाहना ।
रक्तवस्त्रधरा तद्वच्छूलशक्तिगदाधरा ॥ ३ ॥
कौमार्यै नमः ।
वैष्णवी –
वैष्णवी विष्णुसदृशी गरुडोपरि संस्थिता ।
चतुर्बाहुश्च वरदा शङ्खचक्रगदाधरा ॥ ४ ॥
वैष्णव्यै नमः ।
वाराही –
वाराहीं तु प्रवक्ष्यामि महिषोपरि संस्थिताम् ।
वराहसदृशी घण्टानादा चामरधारिणी ॥ ५ ॥
गदाचक्रधरा तद्वद्दानवेन्द्रविघातिनी ।
लोकानां च हितार्थाय सर्वव्याधिविनाशिनी ॥ ६ ॥
वाराह्यै नमः ।
इन्द्राणी –
इन्द्राणी त्विन्द्रसदृशी वज्रशूलगदाधरा ।
गजासनगता देवी लोचनैर्बहुभिर्वृता ॥ ७ ॥
इन्द्राण्यै नमः ।
चामुण्डा –
दंष्ट्राला क्षीणदेहा च गर्ताक्षा भीमरूपिणी ।
दिग्बाहुः क्षामकुक्षिश्च मुसलं चक्रमार्गणौ ॥ ८ ॥
अङ्कुशं बिभ्रती खड्गं दक्षिणेष्वथ वामतः ।
खेटं पाशं धनुर्दण्डं कुठारं चेति बिभ्रती ॥ ९ ॥
चामुण्डा प्रेतगा रक्ता विकृतास्याहिभूषणा ।
द्विभुजा वा प्रकर्तव्या कृत्तिकाकार्यरन्विता ॥ १० ॥
चामुण्डायै नमः ।
इति सप्तमातृका स्तोत्रम् ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.