Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
उद्यन्नद्य विवस्वानारोहन्नुत्तरां दिवं देवः ।
हृद्रोगं मम सूर्यो हरिमाणं चाऽऽशु नाशयतु ॥ १ ॥
निमिषार्धेनैकेन द्वे च शते द्वे सहस्रे द्वे ।
क्रममाण योजनानां नमोऽस्तु ते नलिननाथाय ॥ २ ॥
कर्मज्ञानखदशकं मनश्च जीव इति विश्वसर्गाय ।
द्वादशधा यो विचरति स द्वादशमूर्तिरस्तु मोदाय ॥ ३ ॥
त्वं हि यजू ऋक् सामः त्वमागमस्त्वं वषट्कारः ।
त्वं विश्वं त्वं हंसः त्वं भानो परमहंसश्च ॥ ४ ॥
शिवरूपात् ज्ञानमहं त्वत्तो मुक्तिं जनार्दनाकारात् ।
शिखिरूपादैश्वर्यं त्वत्तश्चारोग्यमिच्छामि ॥ ५ ॥
त्वचि दोषा दृशि दोषाः हृदि दोषा येऽखिलेन्द्रियजदोषाः ।
तान् पूषा हतदोषः किञ्चिद्रोषाग्निना दहतु ॥ ६ ॥
धर्मार्थकाममोक्षप्रतिरोधानुग्रतापवेगकरान् ।
बन्दीकृतेन्द्रियगणान् गदान् विखण्डयतु चण्डांशुः ॥ ७ ॥
येन विनेदं तिमिरं जगदेत्य ग्रसति चरमचरमखिलम् ।
धृतबोधं तं नलिनीभर्तारं हर्तारमापदामीडे ॥ ८ ॥
यस्य सहस्राभीशोरभीशु लेशो हिमांशुबिम्बगतः ।
भासयति नक्तमखिलं भेदयतु विपद्गणानरुणः ॥ ९ ॥
तिमिरमिव नेत्रतिमिरं पटलमिवाऽशेषरोगपटलं नः ।
काशमिवाधिनिकायं कालपिता रोगयुक्ततां हरतात् ॥ १० ॥
वाताश्मरीगदार्शस्त्वग्दोषमहोदरप्रमेहांश्च ।
ग्रहणीभगन्धराख्या महतीस्त्वं मे रुजो हंसि ॥ ११ ॥
त्वं माता त्वं शरणं त्वं धाता त्वं धनं त्वमाचार्यः ।
त्वं त्राता त्वं हर्ता विपदामर्क प्रसीद मम भानो ॥ १२ ॥
इत्यार्याद्वादशकं साम्बस्य पुरो नभः स्थलात्पतितम् ।
पठतां भाग्यसमृद्धिः समस्तरोगक्षयश्च स्यात् ॥ १३ ॥
इति श्रीसाम्बकृत श्री द्वादशार्या सूर्य स्तुतिः ।
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.