Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अम्भोधिमध्ये रविकोट्यनेकप्रभां ददात्याश्रितजीवमध्ये ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ १ ॥
विराजयोगस्य फलेन साक्ष्यं ददाति नमः कुमाराय तस्मै ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ २ ॥
योऽतीतकाले स्वमतात् गृहीत्वा श्रुतिं करोत्यन्यजीवान् स्वकोले ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ३ ॥
यस्यांश्च जीवेन सम्प्राप्नुवन्ति द्विभागजीवांश्च समैककाले ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ४ ॥
प्रचोदयान्नाद हृदिस्थितेन मन्त्राण्यजीवं प्रकटीकरोति ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ५ ॥
बान्धव्यकल्लोलहृद्वारिदूरे विमानमार्गस्य च यः करोति ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ६ ॥
सद्दीक्षया शास्त्रशब्दस्मृतिर्हृद्वातांश्च छिन्नादनुभूतिरूपम् ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ७ ॥
दीक्षाविधिज्ञानचतुर्विधान्य प्रचोदयान्मन्त्रदैवाद्वरस्य ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ८ ॥
कोट्यद्भुते सप्तभिरेव मन्त्रैः दत्वा सुखं कश्चिति यस्य पादम् ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ९ ॥
स्वस्वाधिकारांश्च विमुक्तदेवाः शीर्षेण सम्योगयेद्यस्य पादम् ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ १० ॥
हुङ्कारशब्देन सृष्टिप्रभावं जीवस्य दत्तं स्ववरेण येन ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ ११ ॥
वीराजपत्रस्थ कुमारभूतिं यो भक्तहस्तेन संस्वीकरोति ।
ससर्वसम्पत् समवाप्तिपूर्णः भवेद्धि सम्याति तं दीर्घमायुः ॥
एतादृशानुग्रहभासिताय साकल्यकोलाय वै षण्मुखाय ।
ओं हंसः ओं तस्मै कुमाराय नमो अस्तु ॥ १२ ॥
ओं श्री सुब्रह्मण्याय नमः ॥
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.