Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
क्रोधासुर उवाच ।
लम्बोदर नमस्तुभ्यं शान्तियोगस्वरूपिणे ।
सर्वशान्तिप्रदात्रे ते विघ्नेशाय नमो नमः ॥ १ ॥
असम्प्रज्ञातरूपेयं शुण्डा ते नात्र संशयः ।
सम्प्रज्ञातमयो देहो देहधारिन्नमो नमः ॥ २ ॥
स्वानन्दे योगिभिर्नित्यं दृष्टस्त्वं ब्रह्मनायकः ।
तेन स्वानन्दवासी त्वं नमः सम्योगधारिणे ॥ ३ ॥
समुत्पन्नं त्वदुदराज्जगन्नानाविधं प्रभो ।
ब्रह्म तद्वन्न सन्देहो लम्बोदर नमोऽस्तु ते ॥ ४ ॥
त्वदीय कृपया देव मया ज्ञातं महोदर ।
त्वत्तः परतरं नास्ति परेशाय नमो नमः ॥ ५ ॥
हेरम्बाय नमस्तुभ्यं विघ्नहर्त्रे कृपालवे ।
आदिमध्यान्तहीनाय तन्मयाय नमो नमः ॥ ६ ॥
सिद्धिबुद्धिविहारज्ञ सिद्धिबुद्धिपते नमः ।
सिद्धिबुद्धिप्रदात्रे ते वक्रतुण्डाय वै नमः ॥ ७ ॥
सर्वात्मकाय सर्वादिपूज्याय ते नमो नमः ।
सर्वपूज्याय वै तुभ्यं भक्तसंरक्षकाय च ॥ ८ ॥
अतः प्रसीद विघ्नेश दासोऽहं ते गजानन ।
लम्बोदराय नित्यं नमो नमस्ते महात्मने ॥ ९ ॥
स्वत उत्थानपरत उत्थाने ब्रह्म धारयन् ।
तवोदरात् समुत्पन्नं तं किं स्तौमि परात्परम् ॥ १० ॥
इति स्तुत्वा महादैत्यः प्रणनाम गजाननम् ।
तमुवाच गणाध्यक्षो भक्तं भक्तजनप्रियः ॥ ११ ॥
लम्बोदर उवाच ।
वरं वृणु महाभाग क्रोधासुर हृदीप्सितम् ।
दास्यामि भक्तिभावेन स्तोत्रेणाऽहं हि तोषितः ॥ १२ ॥
त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदं भवेत् ।
यः पठिष्यति तस्यैव क्रोधजं न भयं भवेत् ॥ १३ ॥
शृणुयात्तस्य तद्वच्च भविष्यति न संशयः ।
यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः ॥ १४ ॥
इति श्रीमन्मुद्गले महापुराणे लम्बोदरचरिते अष्टमोऽध्याये क्रोधासुरकृत लम्बोदरस्तोत्रम् ।
इतर श्री गणेश स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.