Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीपार्वत्युवाच ।
धूमावत्यर्चनं शम्भो श्रुतं विस्तरतो मया ।
कवचं श्रोतुमिच्छामि तस्या देव वदस्व मे ॥ १ ॥
श्रीभैरव उवाच ।
शृणु देवि परं गुह्यं न प्रकाश्यं कलौ युगे ।
कवचं श्रीधूमावत्याः शत्रुनिग्रहकारकम् ॥ २ ॥
ब्रह्माद्या देवि सततं यद्वशादरिघातिनः ।
योगिनो भवच्छत्रुघ्ना यस्या ध्यानप्रभावतः ॥ ३ ॥
ओं अस्य श्रीधूमावतीकवचस्य पिप्पलाद ऋषिः अनुष्टुप् छन्दः श्रीधूमावती देवता धूं बीजं स्वाहा शक्तिः धूमावती कीलकं शत्रुहनने पाठे विनियोगः ।
कवचम् ।
ओं धूं बीजं मे शिरः पातु धूं ललाटं सदाऽवतु ।
धूमा नेत्रयुगं पातु वती कर्णौ सदाऽवतु ॥ ४ ॥
दीर्घा तूदरमध्ये तु नाभिं मे मलिनाम्बरा ।
शूर्पहस्ता पातु गुह्यं रूक्षा रक्षतु जानुनी ॥ ५ ॥
मुखं मे पातु भीमाख्या स्वाहा रक्षतु नासिकाम् ।
सर्वविद्याऽवतु कण्ठं विवर्णा बाहुयुग्मकम् ॥ ६ ॥
चञ्चला हृदयं पातु धृष्टा पार्श्वे सदाऽवतु ।
धूमहस्ता सदा पातु पादौ पातु भयावहा ॥ ७ ॥
प्रवृद्धरोमा तु भृशं कुटिला कुटिलेक्षणा ।
क्षृत्पिपासार्दिता देवी भयदा कलहप्रिया ॥ ८ ॥
सर्वाङ्गं पातु मे देवी सर्वशत्रुविनाशिनी ।
इति ते कथितं पुण्यं कवचं भुवि दुर्लभम् ॥ ९ ॥
न प्रकाश्यं न प्रकाश्यं न प्रकाश्यं कलौ युगे ।
पठनीयं महादेवि त्रिसन्ध्यं ध्यानतत्परैः ।
दुष्टाभिचारो देवेशि तद्गात्रं नैव संस्पृशेत् ॥ १० ॥
इति भैरवीभैरवसंवादे धूमावती कवचं सम्पूर्णम् ।
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.