Vishnu Shatpadi stotram – श्री विष्णुषट्पदी स्तोत्रम्


अविनयमपनय विष्णो
दमय मनः शमय विषयमृगतृष्णाम् ।
भूतदयां विस्तारय
तारय संसारसागरतः ॥ १ ॥

दिव्यधुनीमकरन्दे
परिमलपरिभोगसच्चिदानन्दे ।
श्रीपतिपदारविन्दे
भवभयखेदच्छिदे वन्दे ॥ २ ॥

सत्यपि भेदापगमे
नाथ तवाऽहं न मामकीनस्त्वम् ।
सामुद्रो हि तरङ्गः
क्वचन समुद्रो न तारङ्गः ॥ ३ ॥

उद्धृतनग नगभिदनुज
दनुजकुलामित्र मित्रशशिदृष्टे ।
दृष्टे भवति प्रभवति
न भवति किं भवतिरस्कारः ॥ ४ ॥

मत्स्यादिभिरवतारै-
-रवतारवतावता सदा वसुधाम् ।
परमेश्वर परिपाल्यो
भवता भवतापभीतोऽहम् ॥ ५ ॥

दामोदर गुणमन्दिर
सुन्दरवदनारविन्द गोविन्द ।
भवजलधिमथनमन्दर
परमं दरमपनय त्वं मे ॥ ६ ॥

नारायण करुणामय
शरणं करवाणि तावकौ चरणौ ।
इति षट्पदी मदीये
वदनसरोजे सदा वसतु ॥ ७ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ षट्पदी स्तोत्रं सम्पूर्णम् ।


इतर श्री विष्णु स्तोत्राणि पश्यतु |


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed