Runa Hartru Ganesha Stotram – श्री ऋणहर्तृ गणेश स्तोत्रम्


॥ अथ स्तोत्रम् ॥

सृष्ट्यादौ ब्रह्मणा सम्यक्पूजितः फलसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ १ ॥

त्रिपुरस्य वधात्पूर्वं शम्भुना सम्यगर्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ २ ॥

हिरण्यकशिप्वादीनां वधार्थे विष्णुनार्चितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ३ ॥

महिषस्य वधे देव्या गणनाथः प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ४ ॥

तारकस्य वधात्पूर्वं कुमारेण प्रपूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ५ ॥

भास्करेण गणेशो हि पूजितश्छविसिद्धये ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ६ ॥

शशिना कान्तिवृद्ध्यर्थं पूजितो गणनायकः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ७ ॥

पालनाय स्वतपसां विश्वामित्रेण पूजितः ।
सदैव पार्वतीपुत्रः ऋणनाशं करोतु मे ॥ ८ ॥

इदं ऋणहरस्तोत्रं तीव्रदारिद्र्यनाशनम् ।
एकवारं पठेन्नित्यं वर्षमेकं समाहितः ॥ ९ ॥

दारिद्र्याद्दारुणान्मुक्तः कुबेरसम्पदं व्रजेत् ।
फडन्तोऽयं महामन्त्रः सार्थपञ्चदशाक्षरः ॥ १० ॥

ओं गणेश ऋणं छिन्दि वरेण्यं हुं नमः फट् ।
इमं मन्त्रं पठेदन्ते ततश्च शुचिभावनः ॥ ११ ॥

एकविंशतिसङ्ख्याभिः पुरश्चरणमीरितम् ।
सहस्रावर्तनात्सम्यक् षण्मासं प्रियतां व्रजेत् ॥ १२ ॥

बृहस्पतिसमो ज्ञाने धने धनपतिर्भवेत् ।
अस्यैवायुतसङ्ख्याभिः पुरश्चरणमीरितम् ॥ १३ ॥

लक्षमावर्तनात्सम्यग्वाञ्छितं फलमाप्नुयात् ।
भूतप्रेतपिशाचानां नाशनं स्मृतिमात्रतः ॥ १४ ॥

॥ अथ प्रयोगः ॥

अस्य श्री ऋणहर्तृगणपतिस्तोत्र महामन्त्रस्य । सदाशिव ऋषिः । अनुष्टुप् छन्दः । श्रीऋणहर्तृगणपतिर्देवता । ग्लौं बीजम् । गः शक्तिः । गं कीलकम् । मम सकल ऋणनाशने जपे विनियोगः ।

करन्यासः ।
ओं गणेश अङ्गुष्ठाभ्यां नमः ।
ओं ऋणं छिन्दि तर्जनीभ्यां नमः ।
ओं वरेण्यं मध्यमाभ्यां नमः ।
ओं हुं अनामिकाभ्यां नमः ।
ओं नमः कनिष्ठिकाभ्यां नमः ।
ओं फट् करतलकरपृष्ठाभ्यां नमः ।

षडङ्गन्यासः ।
ओं गणेश हृदयाय नमः ।
ओं ऋणं छिन्दि शिरसे स्वाहा ।
ओं वरेण्यं शिखायै वषट् ।
ओं हुं कवचाय हुम् ।
ओं नमः नेत्रत्रयाय वौषट् ।
ओं फट् अस्त्राय फट् ।

ध्यानम् –
सिन्दूरवर्णं द्विभुजं गणेशं
लम्बोदरं पद्मदले निविष्टम् ।
ब्रह्मादिदेवैः परिसेव्यमानं
सिद्धैर्युतं तं प्रणमामि देवम् ॥

लमित्यादि पञ्चपूजा ॥

॥ मन्त्रः ॥

ओं गणेश ऋणं छिन्दि वरेण्यं हुं नमः फट् ।

इति श्रीकृष्णयामलतन्त्रे उमामहेश्वरसंवादे ऋणहर्तृ गणेश स्तोत्रम् ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Runa Hartru Ganesha Stotram – श्री ऋणहर्तृ गणेश स्तोत्रम्

Leave a Reply

error: Not allowed