Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
प्रत्यङ्गिरां आश्रितकल्पवल्लीं
अनन्तकल्याणगुणाभिरामाम् ।
सुरासुरेशार्चित पादपद्मां
सच्चित् परानन्दमयीं नमामि ॥ १ ॥
प्रत्यङ्गिरां सर्वजगत् प्रसूतिं
सर्वेश्वरीं सर्वभयापहन्त्रीम् ।
समस्त सम्पत् सुखदां समस्त-
-शरीरिणीं सर्वदृशां नमामि ॥ २ ॥
प्रत्यङ्गिरां कामदुघां निजाङ्घ्रि-
-पद्माश्रितानां परिपन्धि भीमाम् ।
श्यामां शिवां शङ्करदिव्यदीप्तिं
सिंहाकृतिं सिंहमुखीं नमामि ॥ ३ ॥
यन्त्राणि तन्त्राणि च मन्त्रजालं
कृत्याः परेषां च महोग्रकृत्ये ।
प्रत्यङ्गिरे ध्वंसय यन्त्र-तन्त्र-
-मन्त्रान् स्वकीयान् प्रकटी कुरुष्व ॥ ४ ॥
कुटुम्बवृद्धिं धनधान्यवृद्धिं
समस्त भोगान् अमितान् श्रियं च ।
समस्त विद्या सुविशारदत्वं
मतिं च मे देहि महोग्रकृत्ये ॥ ५ ॥
समस्त देशाधिपतीन् ममाशु
वशे शिवे स्थापय शत्रुसङ्घान् ।
हनाशु मे देवि महोग्रकृत्ये
प्रसीद देवेश्वरि भुक्ति मुक्तिः ॥ ६ ॥
जय प्रत्यङ्गिरे देवि जय विश्वमये शिवे ।
जय दुर्गे महादेवि महाकृत्ये नमोऽस्तु ते ॥ ७ ॥
जय प्रत्यङ्गिरे विष्णुविरिञ्चिशिवपूजिते ।
सत्यज्ञानानन्दमयि सर्वेश्वरि नमोऽस्तु ते ॥ ८ ॥
ब्रह्माण्डानां अशेषानां शरण्ये जगदम्बिके ।
अशेषजगदाराध्ये नमः प्रत्यङ्गिरेऽस्तु ते ॥ ९ ॥
प्रत्यङ्गिरे महाकृत्ये दुस्तरापन्निवारिणि ।
सकलापन्निवृत्तिं मे सर्वदा कुरु सर्वदे ॥ १० ॥
प्रत्यङ्गिरे जगन्मातर्जय श्री परमेश्वरि ।
तीव्रदारिद्र्यदुःखं मे क्षिप्रमेव हराम्बिके ॥ ११ ॥
प्रत्यङ्गिरे महामाये भीमे भीमपराक्रमे ।
मम शत्रूनशेषांस्त्वं दुष्टान्नाशय नाशय ॥ १२ ॥
प्रत्यङ्गिरे महादेवि ज्वालामालोज्वलानने ।
क्रूरग्रहान् अशेषान् त्वं दह खादाग्निलोचने ॥ १३ ॥
प्रत्यङ्गिरे महाघोरे परमन्त्रांश्च कृत्रिमान् ।
परकृत्या यन्त्रतन्त्रजालं छेदय छेदय ॥ १४ ॥
प्रत्यङ्गिरे विशालाक्षि परात्परतरे शिवे ।
देहि मे पुत्रपौत्रादि पारम्पर्योच्छ्रितां श्रियम् ॥ १५ ॥
प्रत्यङ्गिरे महादुर्गे भोगमोक्षफलप्रदे ।
सकलाभीष्टसिद्धिं मे देहि सर्वेश्वरेश्वरी ॥ १६ ॥
प्रत्यङ्गिरे महादेवि महादेवमनःप्रिये ।
मङ्गलं मे प्रयच्छाशु मनसा त्वां नमाम्यहम् ॥ १७ ॥
इति श्री प्रत्यङ्गिरा परमेश्वरि स्तोत्रम् ।
इतर श्री प्रत्यङ्गिरा स्तोत्राणि पश्यतु ।
इतर देवी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.