Sri Krishna Stotram (Viprapatni Krutam) – श्री कृष्ण स्तोत्रम् (विप्रपत्नी कृतम्)


त्वं ब्रह्म परमं धाम निरीहो निरहङ्कृतिः ।
निर्गुणश्च निराकारः साकारः सगुणः स्वयम् ॥ १ ॥

साक्षिरूपश्च निर्लिप्तः परमात्मा निराकृतिः ।
प्रकृतिः पुरुषस्त्वं च कारणं च तयोः परम् ॥ २ ॥

सृष्टिस्थित्यन्तविषये ये च देवास्त्रयः स्मृताः ।
ते त्वदंशाः सर्वबीजा ब्रह्मविष्णुमहेश्वराः ॥ ३ ॥

यस्य लोम्नां च विवरे चाखिलं विश्वमीश्वर ।
महाविराण्महाविष्णुस्त्वं तस्य जनको विभो ॥ ४ ॥

तेजस्त्वं चापि तेजस्वी ज्ञानं ज्ञानी च तत्परः ।
वेदेऽनिर्वचनीयस्त्वं कस्त्वां स्तोतुमिहेश्वरः ॥ ५ ॥

महदादिसृष्टिसूत्रं पञ्चतन्मात्रमेव च ।
बीजं त्वं सर्वशक्तीनां सर्वशक्तिस्वरूपकः ॥ ६ ॥

सर्वशक्तीश्वरः सर्वः सर्वशक्त्याश्रयः सदा ।
त्वमनीहः स्वयञ्ज्योतिः सर्वानन्दः सनातनः ॥ ७ ॥

अहोऽप्याकारहीनस्त्वं सर्वविग्रहवानपि ।
सर्वेन्द्रियाणां विषयं जानासि नेन्द्रियी भवान् ॥ ८ ॥

सरस्वती जडीभूता यत् स्तोत्रे यन्निरूपणे ।
जडीभूतो महेशश्च शेषो धर्मो विधिः स्वयम् ॥ ९ ॥

पार्वती कमला राधा सावित्री वेदसूरपि ।
वेदश्च जडतां याति के वा शक्ता विपश्चितः ॥ १० ॥

वयं किं स्तवनं कुर्मः स्त्रियः प्राणेश्वरेश्वरः ।
प्रसन्नो भव नो देव दीनबन्धो कृपां कुरु ॥ ११ ॥

इति पेतुश्च ता विप्रपत्न्यस्तच्चरणाम्बुजे ।
अभयं प्रददौ ताभ्यः प्रसन्नवदनेक्षणः ॥ १२ ॥

विप्रपत्नीकृतं स्तोत्रं पूजाकाले च यः पठेत् ।
स गतिं विप्रपत्नीनां लभते नाऽत्र संशयः ॥ १३ ॥

इति श्रीब्रह्मवैवर्ते महापुराणे श्रीकृष्णजन्मखण्डे अष्टादशोऽध्याये विप्रपत्नीकृत श्री कृष्ण स्तोत्रम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed