Sri Jogulamba Ashtakam – श्री जोगुलाम्बाष्टकम्


महायोगिपीठस्थले तुङ्गभद्रा-
-तटे सूक्ष्मकाश्यां सदासंवसन्तीम् ।
महायोगिब्रह्मेशवामाङ्कसंस्थां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ १ ॥

ज्वलद्रत्नवैडूर्यमुक्ताप्रवाल
प्रवीण्यस्थगाङ्गेयकोटीरशोभाम् ।
सुकाश्मीररेखाप्रभाख्यां स्वफाले
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ २ ॥

स्वसौन्दर्यमन्दस्मितां बिन्दुवक्त्रां
रसत्कज्जलालिप्त पद्माभनेत्राम् ।
परां पार्वतीं विद्युदाभासगात्रीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ३ ॥

घनश्यामलापादसंलोक वेणीं
मनः शङ्करारामपीयूषवाणीम् ।
शुकाश्लिष्टसुश्लाघ्यपद्माभपाणीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ४ ॥

सुधापूर्ण गाङ्गेयकुम्भस्तनाढ्यां
लसत्पीतकौशेयवस्त्रां स्वकट्याम् ।
गलेरत्नमुक्तावलीपुष्पहारां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ५ ॥

शिवां शाङ्करीं सर्वकल्याणशीलां
भवानीं भवाम्भोनिधेर्दिव्यनौकाम् ।
कुमारीं कुलोत्तारणीमादिविद्यां
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ६ ॥

चलत्किङ्किणीं नूपुरापादपद्मां
सुरेन्द्रैर्मृगेन्द्रैर्महायोगिबृन्दैः ।
सदा संस्तुवन्तीं परं वेदविद्भिः
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ७ ॥

हरेः सोदरीं हव्यवाहस्वरूपां
प्रसन्नां प्रपन्नार्तिहन्त्रीं प्रसिद्धाम् ।
महासिद्धिबुद्ध्यादिवन्द्यां परेशीं
शरच्चन्द्रबिम्बां भजे जोगुलाम्बाम् ॥ ८ ॥

इदं जोगुलाम्बाष्टकं यः पठेद्वा
प्रभाते निशार्धेऽथवा चित्तशुद्धिः ।
पृथिव्यां परं सर्वभोगांश्च भुक्त्वा
श्रियं मुक्तिमाप्नोति दिव्यां प्रसिद्धः ॥ ९ ॥

इति श्री जोगुलाम्बाष्टकम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed