Sri Angaraka (Mangala) Ashtottara Shatanamavali – श्री अङ्गारक अष्टोत्तरशतनामावलिः

ओं महीसुताय नमः ।
ओं महाभागाय नमः ।
ओं मङ्गलाय नमः ।
ओं मङ्गलप्रदाय नमः ।
ओं महावीराय नमः ।
ओं महाशूराय नमः ।
ओं महाबलपराक्रमाय नमः ।
ओं महारौद्राय नमः ।
ओं महाभद्राय नमः ।
ओं माननीयाय नमः । १० ।

ओं दयाकराय नमः ।
ओं मानदाय नमः ।
ओं अमर्षणाय नमः ।
ओं क्रूराय नमः ।
ओं तापपापविवर्जिताय नमः ।
ओं सुप्रतीपाय नमः ।
ओं सुताम्राक्षाय नमः ।
ओं सुब्रह्मण्याय नमः ।
ओं सुखप्रदाय नमः ।
ओं वक्रस्तम्भादिगमनाय नमः । २० ।

ओं वरेण्याय नमः ।
ओं वरदाय नमः ।
ओं सुखिने नमः ।
ओं वीरभद्राय नमः ।
ओं विरूपाक्षाय नमः ।
ओं विदूरस्थाय नमः ।
ओं विभावसवे नमः ।
ओं नक्षत्रचक्रसञ्चारिणे नमः ।
ओं क्षत्रपाय नमः ।
ओं क्षात्रवर्जिताय नमः । ३० ।

ओं क्षयवृद्धिविनिर्मुक्ताय नमः ।
ओं क्षमायुक्ताय नमः ।
ओं विचक्षणाय नमः ।
ओं अक्षीणफलदाय नमः ।
ओं चक्षुर्गोचराय नमः ।
ओं शुभलक्षणाय नमः ।
ओं वीतरागाय नमः ।
ओं वीतभयाय नमः ।
ओं विज्वराय नमः ।
ओं विश्वकारणाय नमः । ४० ।

ओं नक्षत्रराशिसञ्चाराय नमः ।
ओं नानाभयनिकृन्तनाय नमः ।
ओं कमनीयाय नमः ।
ओं दयासाराय नमः ।
ओं कनत्कनकभूषणाय नमः ।
ओं भयघ्नाय नमः ।
ओं भव्यफलदाय नमः ।
ओं भक्ताभयवरप्रदाय नमः ।
ओं शत्रुहन्त्रे नमः ।
ओं शमोपेताय नमः । ५० ।

ओं शरणागतपोषकाय नमः ।
ओं साहसिने नमः ।
ओं सद्गुणाय नमः
ओं अध्यक्षाय नमः ।
ओं साधवे नमः ।
ओं समरदुर्जयाय नमः ।
ओं दुष्टदूराय नमः ।
ओं शिष्टपूज्याय नमः ।
ओं सर्वकष्टनिवारकाय नमः ।
ओं दुश्चेष्टवारकाय नमः । ६० ।

ओं दुःखभञ्जनाय नमः ।
ओं दुर्धराय नमः ।
ओं हरये नमः ।
ओं दुःस्वप्नहन्त्रे नमः ।
ओं दुर्धर्षाय नमः ।
ओं दुष्टगर्वविमोचकाय नमः ।
ओं भरद्वाजकुलोद्भूताय नमः ।
ओं भूसुताय नमः ।
ओं भव्यभूषणाय नमः ।
ओं रक्ताम्बराय नमः । ७० ।

ओं रक्तवपुषे नमः ।
ओं भक्तपालनतत्पराय नमः ।
ओं चतुर्भुजाय नमः ।
ओं गदाधारिणे नमः ।
ओं मेषवाहाय नमः ।
ओं मिताशनाय नमः ।
ओं शक्तिशूलधराय नमः ।
ओं शक्ताय नमः ।
ओं शस्त्रविद्याविशारदाय नमः ।
ओं तार्किकाय नमः । ८० ।

ओं तामसाधाराय नमः ।
ओं तपस्विने नमः ।
ओं ताम्रलोचनाय नमः ।
ओं तप्तकाञ्चनसङ्काशाय नमः ।
ओं रक्तकिञ्जल्कसन्निभाय नमः ।
ओं गोत्राधिदेवाय नमः ।
ओं गोमध्यचराय नमः ।
ओं गुणविभूषणाय नमः ।
ओं असृजे नमः ।
ओं अङ्गारकाय नमः । ९० ।

ओं अवन्तीदेशाधीशाय नमः ।
ओं जनार्दनाय नमः ।
ओं सूर्ययाम्यप्रदेशस्थाय नमः ।
ओं यौवनाय नमः ।
ओं याम्यदिङ्मुखाय नमः ।
ओं त्रिकोणमण्डलगताय नमः ।
ओं त्रिदशाधिपसन्नुताय नमः ।
ओं शुचये नमः ।
ओं शुचिकराय नमः ।
ओं शूराय नमः । १०० ।

ओं शुचिवश्याय नमः ।
ओं शुभावहाय नमः ।
ओं मेषवृश्चिकराशीशाय नमः ।
ओं मेधाविने नमः ।
ओं मितभाषणाय नमः ।
ओं सुखप्रदाय नमः ।
ओं सुरूपाक्षाय नमः ।
ओं सर्वाभीष्टफलप्रदाय नमः । १०८ ।

Facebook Comments

You may also like...

Leave a Reply

Your email address will not be published. Required fields are marked *

error: Download Stotra Nidhi mobile app