Shyamala Stotram – श्री श्यामला स्तोत्रम्


जय मातर्विशालाक्षि जय सङ्गीतमातृके ।
जय मातङ्गि चण्डालि गृहीतमधुपात्रके ॥ १ ॥

नमस्तेऽस्तु महादेवि नमो भगवतीश्वरि ।
नमस्तेऽस्तु जगन्मातर्जय शङ्करवल्लभे ॥ २ ॥

जय त्वं श्यामले देवि शुकश्यामे नमोऽस्तु ते ।
महाश्यामे महारामे जय सर्वमनोहरे ॥ ३ ॥

जय नीलोत्पलप्रख्ये जय सर्ववशङ्करि ।
जय त्वजात्वसंस्तुत्ये लघुश्यामे नमोऽस्तु ते ॥ ४ ॥

नमो नमस्ते रक्ताक्षि जय त्वं मदशालिनि ।
जय मातर्महालक्ष्मि वागीश्वरि नमोऽस्तु ते ॥ ५ ॥

नम इन्द्रादिसंस्तुत्ये नमो ब्रह्मादिपूजिते ।
नमो मरकतप्रख्ये शङ्खकुण्डलशोभिते ॥ ६ ॥

जय त्वं जगदीशानि लोकमोहिनि ते नमः ।
नमस्तेऽस्तु महाकृष्णे नमो विश्वेशवल्लभे ॥ ७ ॥

महेश्वरि नमस्तेऽस्तु नीलाम्बरसमन्विते ।
नमः कल्याणि कृष्णाङ्गि नमस्ते परमेश्वरि ॥ ८ ॥

महादेवप्रियकरि नमः सर्ववशङ्करि ।
महासौभाग्यदे नॄणां कदम्बवनवासिनि ॥ ९ ॥

जय सङ्गीतरसिके वीणाहस्ते नमोऽस्तु ते ।
जनमोहिनि वन्दे त्वां ब्रह्मविष्णुशिवात्मिके ॥ १० ॥

वाग्वादिनि नमस्तुभ्यं सर्वविद्याप्रदे नमः ।
नमस्ते कुलदेवेशि नमो नारीवशङ्करि ॥ ११ ॥

अणिमादिगुणाधारे जय नीलाद्रिसन्निभे ।
शङ्खपद्मादिसम्युक्ते सिद्धिदे त्वां भजाम्यहम् ॥ १२ ॥

जय त्वं वरभूषाङ्गि वराङ्गीं त्वां भजाम्यहम् ।
देवीं वन्दे योगिवन्द्ये जय लोकवशङ्करि ॥ १३ ॥

सर्वालङ्कारसम्युक्ते नमस्तुभ्यं निधीश्वरि ।
सर्गपालनसंहारहेतुभूते सनातनि ॥ १४ ॥

जय मातङ्गतनये जय नीलोत्पलप्रभे ।
भजे शक्रादिवन्द्ये त्वां जय त्वं भुवनेश्वरि ॥ १५ ॥

जय त्वं सर्वभक्तानां सकलाभीष्टदायिनि ।
जय त्वं सर्वभद्राङ्गी भक्ताऽशुभविनाशिनि ॥ १६ ॥

महाविद्ये नमस्तुभ्यं सिद्धलक्ष्मि नमोऽस्तु ते ।
ब्रह्मविष्णुशिवस्तुत्ये भक्तानां सर्वकामदे ॥ १७ ॥

मातङ्गीश्वरवन्द्ये त्वां प्रसीद मम सर्वदा ।
इत्येतच्छ्यामलास्तोत्रं सर्वकामसमृद्धिदम् ॥ १८ ॥

शुद्धात्मा प्रजपेद्यस्तु नित्यमेकाग्रमानसः ।
स लभेत्सकलान्कामान् वशीकुर्याज्जगत्त्रयम् ॥ १९ ॥

शीघ्रं दासा भवन्त्यस्य देवा योगीश्वरादयः ।
रम्भोर्वश्याद्यप्सरसामव्ययो मदनो भवेत् ॥ २० ॥

नृपाश्च मर्त्याः सर्वेऽस्य सदा दासा भवन्ति हि ।
लभेदष्टगुणैश्वर्यं दारिद्र्येण विमुच्यते ॥ २१ ॥

शङ्खादि निधयो द्वार्स्थाः सान्निध्यं पर्युपासते ।
व्याचष्टे सर्वशास्त्राणि सर्वविद्यानिधिर्भवेत् ॥ २२ ॥

विमुक्तः सकलापद्भिः लभेत्सम्पत्तिमुत्तमाम् ।
महापापोपपापौघैः सशीघ्रं मुच्यते नरः ॥ २३ ॥

जातिस्मरत्वमाप्नोति ब्रह्मज्ञानमनुत्तमम् ।
सदाशिवत्वमाप्नोति सोन्ते नात्र विचारणा ॥ २४ ॥

इति श्री श्यामला स्तोत्रम् ।


इतर देवी स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed