Shani Graha Vedic Mantra – शनि ग्रहस्य वैदिक मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम शनि ग्रहपीडापरिहारार्थं शनि ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं शनि ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– शनि मन्त्रः –

शन्नो देवीरित्यस्य मन्त्रस्य दध्यङ्ङाथर्वण (दध्यङ्गाथर्वण) ऋषिः गायत्री छन्दः शनैश्चरो देवता आपो बीजं वर्तमान इति शक्तिः शनैश्चर प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं दध्यङ्ङाथर्वण ऋषये नमः शिरसि ।
ओं गायत्री छन्दसे नमः मुखे ।
ओं शनैश्चर देवतायै नमः हृदये ।
ओं आपो बीजाय नमः गुह्ये ।
ओं वर्तमान शक्तये नमः पादयोः ।
ओं शनैश्चर प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं शन्नोदेवीरिति अङ्गुष्ठाभ्यां नमः ।
ओं अभीष्टयेति तर्जनीभ्यां नमः ।
ओं आपोभवन्तु इति मध्यमाभ्यां नमः ।
ओं पीतये इति अनामिकाभ्यां नमः ।
ओं शं योरिति कनिष्ठिकाभ्यां नमः ।
ओं अभिस्रवन्तु नः इति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं शन्नोदेवीरिति हृदयाय नमः ।
ओं अभीष्टयेति शिरसे स्वाहा ।
ओं आपोभवन्तु इति शिखायै वषट् ।
ओं पीतये इति कवचाय हुम् ।
ओं शं योरिति नेत्रत्रयाय वौषट् ।
ओं अभिस्रवन्तु नः इति अस्त्राय फट् ।

ध्यानम् –
नीलद्युतिः शूलधरः किरीटी
गृध्रस्थितस्त्रासकरो धनुष्मान् ।
चतुर्भुजः सूर्यसुतः प्रशान्तः
सदाऽस्तु मह्यं वरमन्दगामी ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।३६-१२)
ओं शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑ ।
शं योर॒भि स्र॑वन्तु नः ॥

ओं शनैश्चराय नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत शनि ग्रहस्य मन्त्र जपेन शनि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed