Mathru Panchakam – मातृ पञ्चकम्


आस्तां तावदियं प्रसूतिसमये दुर्वारशूलव्यथा
नैरुज्यं तनुशोषणं मलमयी शय्या च सांवत्सरी ।
एकस्यापि न गर्भभारभरणक्लेशस्य यस्य क्षमः
दातुं निष्कृतिमुन्नतोऽपि तनयस्तस्यै जनन्यै नमः ॥ १ ॥

गुरुकुलमुपसृत्य स्वप्नकाले तु दृष्ट्वा
यतिसमुचितवेषं प्रारुदो मां त्वमुच्चैः ।
गुरुकुलमथ सर्वं प्रारुदत्ते समक्षं
सपदि चरणयोस्ते मातरस्तु प्रणामः ॥ २ ॥

न दत्तं मातस्ते मरणसमये तोयमपि वा
स्वधा वा नो दत्ता मरणदिवसे श्राद्धविधिना ।
न जप्तो मातस्ते मरणसमये तारकमनुः
अकाले सम्प्राप्ते मयि कुरु दयां मातरतुलाम् ॥ ३ ॥

मुक्तामणिस्त्वं नयनं ममेति
राजेति जीवेति चिरं सुत त्वम् ।
इत्युक्तवत्यास्तव वाचि मातः
ददाम्यहं तण्डुलमेष शुष्कम् ॥ ४ ॥

अम्बेति तातेति शिवेति तस्मिन्
प्रसूतिकाले यदवोच उच्चैः ।
कृष्णेति गोविन्द हरे मुकुन्दे-
-त्यहो जनन्यै रचितोऽयमञ्जलिः ॥ ५ ॥

इति श्रीमच्छङ्कराचार्य विरचितं मातृ पञ्चकम् ॥


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed