Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(तै.ब्रा.२-३-११-१)
ब्रह्मा᳚ऽऽत्म॒न्वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् । स दश॑हूतोऽभवत् । दश॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं दश॑हूत॒ग्ं॒ सन्त᳚म् । दश॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ १ ॥
// ब्रह्मा, आत्मन्वत्, असृजत, तत्, अकामयत, समात्मना, पद्येय, इति, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, दशमं, हूतः, प्रति-अशृणोत्, स, दशहूतो, अभवत्, दशहूतः, ह, वै, नाम, एषः, तं, वा, एतं, दशहूतं, सन्तं, दशहोता, इति, आचक्षते, परोक्षेण, प्ररोक्षप्रिया, इव, हि, देवाः //
आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् । स स॒प्तहू॑तोऽभवत् । स॒प्तहू॑तो ह॒ वै नामै॒षः । तं वा ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ सन्त᳚म् । स॒प्तहो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् । स षड्ढू॑तोऽभवत् ॥ २ ॥
// आत्मन्, आत्मन्, इति आमन्त्रयत, तस्मै, सप्तमं हूतः, प्रति-अशृणोत्, स, सप्तहूतः, अभवत्, सप्तहूतः, ह, वै, नाम, एषः, तं, वा एतः, सप्तहूतं, सन्तत्, सप्तहोता, इति, आचक्षते, परोक्षेण, परोक्षप्रिया, इव, हि, देवाः, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, षष्ठं, हूतः, प्रति-अशृणोत्, स, षट्-हूतः, अभवत् //
षड्ढू॑तो ह॒ वै नामै॒षः । तं वा ए॒तग्ं षड्ढू॑त॒ग्ं॒ सन्त᳚म् । षड्ढो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ पञ्च॒मग्ं हू॒तः प्रत्य॑शृणोत् । स पञ्च॑हूतोऽभवत् । पञ्च॑हूतो ह॒ वै नामै॒षः । तं वा ए॒तं पञ्च॑हूत॒ग्ं॒ सन्त᳚म् । पञ्च॑हो॒तेत्याच॑क्षते प॒रोक्षे॑ण ॥ ३ ॥
// षट्-हूतः, ह, वै, नाम, एषः, तं, वा, एतं, षट्-हूतं, सन्तम्, षट्-होता, इति, आचक्षते, परोक्षेण, परोक्षप्रिया, इव, हि, देवाः, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, पञ्चमं हूतः, प्रति-अशृणोत्, स, पञ्चहूतः, अभवत्, पञ्चहूतः, ह, वै, नाम, एषः, तं, वा, एतं, पञ्चहूतं, सन्तं, पञ्चहोता, इति, आचक्षते, परोक्षेण //
प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । आत्म॒न्नात्म॒न्नित्याम॑न्त्रयत । तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् । स चतु॑र्हूतोऽभवत् । चतु॑र्हूतो ह॒ वै नामै॒षः । तं वा ए॒तं चतु॑र्हूत॒ग्ं॒ सन्त᳚म् । चतु॑र्हो॒तेत्याच॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः । तम॑ब्रवीत् । त्वं वै मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः । त्वयै॑नानाख्या॒तार॒ इति॑ । तस्मा॒न्नु है॑ना॒ग्॒श्चतु॑र्होतार॒ इत्याच॑क्षते । तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः । नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वं वेद॑ ॥ ४ ॥
// परोक्षप्रिया, इव, हि, देवाः, आत्मन्, आत्मन्, इति, आमन्त्रयत, तस्मै, चतुर्थं, हूतः, प्रति-अशृणोत्, स, चतुः-हूतः, अभवत्, चतुः-हूतः, ह, वै, नाम, एषः, तं, वा, एतं, चतुः-हूतं, सन्तं, चतुः-होता, इति, आचक्षते, परोक्षेण, परोक्षप्रिया, इव, हि, देवाः, तं, अब्रवीत्, त्वं, वै, मे, नेदिष्ठं, हूतः, प्रति-अश्रौषीः, त्वयैनानाख्यातार, इति, तस्मात्, नु, हैनां, चतुः-होतारः, इति, आचक्षते, तस्मात्, शुश्रूषुः, पुत्राणां, हृद्यतमः, निदिष्ठः, हृद्यतमः, नेदिष्ठः, ब्रह्मणः, भवति, य, एवं, वेद //
आत्मने नमः ॥
इत्यात्मरक्षा कर्तव्या᳚ शिवसंकल्पग्ं हृदयम् ॥
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.