Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
मातर्नमामि कमले पद्माऽऽयतसुलोचने ।
श्रीविष्णुहृत्कमलस्थे विश्वमातर्नमोऽस्तु ते ॥ १ ॥
क्षीरसागरसत्पुत्रि पद्मगर्भाभसुन्दरि ।
लक्ष्मि प्रसीद सततं विश्वमातर्नमोऽस्तु ते ॥ २ ॥
महेन्द्रसदने त्वं श्रीः रुक्मिणी कृष्णभामिनी ।
चन्द्रे ज्योत्स्ना प्रभा सूर्ये विश्वमातर्नमोऽस्तु ते ॥ ३ ॥
स्मितानने जगद्धात्रि शरण्ये सुखवर्धिनि ।
जातवेदसि दहने विश्वमातर्नमोऽस्तु ते ॥ ४ ॥
ब्रह्माणि त्वं सर्जनाऽसि विष्णौ त्वं पोषिका सदा ।
शिवे संहारिका शक्तिर्विश्वमातर्नमोऽस्तु ते ॥ ५ ॥
त्वया शूरो गुणी विज्ञो धन्यो मान्यः कुलीनकः ।
कलाशीलकलापाढ्यो विश्वमातर्नमोऽस्तु ते ॥ ६ ॥
त्वया गजस्तुरङ्गश्च स्त्रैणस्तृणं सरः सदः ।
देवो गृहं कणः श्रेष्ठा विश्वमातर्नमोऽस्तु ते ॥ ७ ॥
त्वया पक्षी पशुः शय्या रत्नं पृथ्वी नरो वधूः ।
श्रेष्ठाः शुद्धा महालक्ष्मि विश्वमातर्नमोऽस्तु ते ॥ ८ ॥
लक्ष्मि श्री कमले पद्मे रमे पद्मोद्भवे सति ।
अब्धिजे विष्णुपत्नि त्वं प्रसीद सततं प्रिये ॥ ९ ॥
इति श्रीलक्ष्मीनारायणसंहितायां लोपामुद्रा कृत श्री लक्ष्मी स्तोत्रम् ।
इतर श्री लक्ष्मी स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.