Ketu Graha Vedic Mantra – केतु ग्रहस्य वैदिक मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम केतु ग्रहपीडापरिहारार्थं केतु ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं केतु ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– केतु मन्त्रः –

केतुं कृण्वन्नित्यस्य मन्त्रस्य मधुच्छञ्च्छा ऋषिः गायत्री छन्दः केतुर्देवता अपेशसे इति बीजं मर्या शक्तिः केतु प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं मधु ऋषये नमः शिरसि ।
ओं गायत्री छन्दसे नमः मुखे ।
ओं केतु देवतायै नमः हृदये ।
ओं अपेशसे इति बीजाय नमः गुह्ये ।
ओं मर्या शक्तये नमः पादयोः ।
ओं केतु प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं केतुं कृण्वन् इति अङ्गुष्ठाभ्यां नमः ।
ओं केतवे इति तर्जनीभ्यां नमः ।
ओं पेशोमर्या इति मध्यमाभ्यां नमः ।
ओं अपेशसे इति अनामिकाभ्यां नमः ।
ओं समुषद्भिः इति कनिष्ठिकाभ्यां नमः ।
ओं अजायथाः इति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं केतुं कृण्वन् इति हृदयाय नमः ।
ओं केतवे इति शिरसे स्वाहा ।
ओं पेशोमर्या इति शिखायै वषट् ।
ओं अपेशसे इति कवचाय हुम् ।
ओं समुषद्भिः इति नेत्रत्रयाय वौषट् ।
ओं अजायथाः इति अस्त्राय फट् ।

ध्यानम् –
धूम्रो द्विबाहुर्वरदो गदाभृ-
-द्गृध्रासनस्थो विकृताननश्च ।
किरीटकेयूरविभूषिताङ्गः
सदास्तु मे केतुगणः प्रशान्तः ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।२९-३७)
ओं के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो॑ मर्याऽअपे॒शसे॑ ।
समु॒षद्भि॑रजायथाः ॥

ओं केतवे नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत केतु ग्रहस्य मन्त्र जपेन केतु सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed