Budha Graha Vedic Mantra – बुध ग्रहस्य वैदिक मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम बुध ग्रहपीडापरिहारार्थं बुध ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं बुध ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– बुध मन्त्रः –

उद्बुध्यस्वेत्यस्य मन्त्रस्य परमेष्ठी ऋषिः आर्षीत्रिष्टुप् छन्दः बुधो देवता त्वमिष्टापूर्तेसं इति बीजं बुध प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं परमेष्ठी ऋषये नमः शिरसि ।
ओं आर्षीत्रिष्टुप् छन्दसे नमः मुखे ।
ओं बुध देवतायै नमः हृदये ।
ओं त्वामिष्टापूर्तेसं इति बीजाय नमः गुह्ये ।
ओं बुध प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं उद्बुध्यस्वाग्ने प्रति जागृहीति अङ्गुष्ठाभ्यां नमः ।
ओं त्वमिष्टापूर्ते समिति तर्जनीभ्यां नमः ।
ओं सृजेथामयं चेति मध्यमाभ्यां नमः ।
ओं अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन्निति अनामिकाभ्यां नमः ।
ओं विश्वेदेवा इति कनिष्ठिकाभ्यां नमः ।
ओं यजमानश्च सीदतेति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं उद्बुध्यस्वाग्ने प्रति जागृहीति हृदयाय नमः ।
ओं त्वमिष्टापूर्ते समिति शिरसे स्वाहा ।
ओं सृजेथामयं चेति शिखायै वषट् ।
ओं अस्मिन्त्सधस्थेऽअध्युत्तरस्मिन्निति कवचाय हुम् ।
ओं विश्वेदेवा इति नेत्रत्रयाय वौषट् ।
ओं यजमानश्च सीदतेति अस्त्राय फट् ।

ध्यानम् –
पीताम्बरः पीतवपुः किरीटी
चतुर्भुजो दण्डधरश्च सौम्यः ।
चर्मासिधृत् सोमसुतः सु मेरुः
सिंहाधिरूढो वरदो बुधश्च ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।१५-५४)
ओं उद्बु॑ध्यस्वाग्ने॒ प्रति॑ जागृहि॒ त्वमि॑ष्टापू॒र्ते सग्ं सृ॑जेथाम॒यं च॑ ।
अ॒स्मिन्त्स॒धस्थे॒ऽअध्युत्त॑रस्मि॒न् विश्वे॑ देवा॒ यज॑मानश्च सीदत ॥

ओं बुधाय नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत बुध ग्रहस्य मन्त्र जपेन बुध सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed