Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
देवा ऊचुः ।
हृषीकेश महाबाहो भगवन् मधुसूदन ।
नमस्ते देवदेवेश सर्वदैत्यविनाशक ॥ १ ॥
मत्स्यरूपाय ते विष्णो वेदान्नीतवते नमः ।
सत्यव्रतेन सद्राज्ञा प्रलयाब्धिविहारिणे ॥ २ ॥
कुर्वाणानां सुराणां च मन्थनायोद्यमं भृशम् ।
बिभ्रते मन्दरगिरिं कूर्मरूपाय ते नमः ॥ ३ ॥
नमस्ते भगवन्नाथ क्रतवे सूकरात्मने ।
वसुन्धरां जनाधारां मूर्धतो बिभ्रते नमः ॥ ४ ॥
वामनाय नमस्तुभ्यमुपेन्द्राख्याय विष्णवे ।
विप्ररूपेण दैत्येन्द्रं बलिं छलयते विभो ॥ ५ ॥
नमः परशुरामाय क्षत्रनिःक्षत्रकारिणे ।
मातुर्हितकृते तुभ्यं कुपितायासतां द्रुहे ॥ ६ ॥
रामाय लोकरामाय मर्यादापुरुषाय ते ।
रावणान्तकरायाशु सीतायाः पतये नमः ॥ ७ ॥
नमस्ते ज्ञानगूढाय कृष्णाय परमात्मने ।
राधाविहारशीलाय नानालीलाकराय च ॥ ८ ॥
नमस्ते गूढदेहाय वेदनिन्दाकराय च ।
योगाचार्याय जैनाय बौद्धरूपाय मापते ॥ ९ ॥
नमस्ते कल्किरूपाय म्लेच्छानामन्तकारिणे ।
अनन्तशक्तिरूपाय सद्धर्मस्थापनाय च ॥ १० ॥
नमस्ते कपिलरूपाय देवहूत्यै महात्मने ।
वदते साङ्ख्ययोगं च साङ्ख्याचार्याय वै प्रभो ॥ ११ ॥
नमः परमहंसाय ज्ञानं संवदते परम् ।
विधात्रे ज्ञानरूपाय येनात्मा सम्प्रसीदति ॥ १२ ॥
वेदव्यासाय वेदानां विभागं कुर्वते नमः ।
हिताय सर्वलोकानां पुराणरचनाय च ॥ १३ ॥
एवं मत्स्यादितनुभिर्भक्तकार्योद्यताय ते ।
सर्गस्थितिध्वंसकर्त्रे नमस्ते ब्रह्मणे प्रभो ॥ १४ ॥
आर्तिहन्त्रे स्वदासानां सुखदाय शुभाय च ।
पीताम्बराय हरये तार्क्ष्ययानाय ते नमः ।
सर्वक्रियायैककर्त्रे शरण्याय नमो नमः ॥ १५ ॥
दैत्यसन्तापितामर्त्यदुःखादिध्वंसवज्रक ।
शेषतल्पशयायार्कचन्द्रनेत्राय ते नमः ॥ १६ ॥
कृपासिन्धो रमानाथ पाहि नः शरणागतान् ।
जलन्धरेण देवाश्च स्वर्गात् सर्वे निराकृताः ॥ १७ ॥
सूर्यो निस्सारितः स्थानाच्चन्द्रो वह्निस्तथैव च ।
पातालान्नागराजश्च धर्मराजो निराकृतः ॥ १८ ॥
विचरन्ति यथा मर्त्याः शोभन्ते नैव ते सुराः ।
शरणं ते वयं प्राप्ता वधस्तस्य विचिन्त्यताम् ॥ १९ ॥
इति श्रीशिवपुराणे रुद्रसंहितायां युद्धखण्डे षोडशोऽध्याये सर्वदेव कृत श्री विष्णु स्तोत्रम् ॥
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.