Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हरिरुवाच ।
प्रवक्ष्याम्यधुना ह्येतद्वैष्णवं पञ्जरं शुभम् ।
नमो नमस्ते गोविन्द चक्रं गृह्य सुदर्शनम् ।
प्राच्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥ १ ॥
गदां कौमोदकीं गृह्ण पद्मनाभ नमोऽस्तु ते ।
याम्यां रक्षस्व मां विष्णो त्वामहं शरणं गतः ॥ २ ॥
हलमादाय सौनन्दं नमस्ते पुरुषोत्तम ।
प्रतीच्यां रक्ष मां विष्णो त्वामहं शरणं गतः ॥ ३ ॥
मुसलं शातनं गृह्य पुण्डरीकाक्ष रक्ष माम् ।
उत्तरस्यां जगन्नाथ भवन्तं शरणं गतः ॥ ४ ॥
खड्गमादाय चर्माथ अस्त्रशस्त्रादिकं हरे ।
नमस्ते रक्ष रक्षोघ्न ऐशान्यां शरणं गतः ॥ ५ ॥
पाञ्चजन्यं महाशङ्खमनुद्बोधं च पङ्कजम् ।
प्रगृह्य रक्ष मां विष्णो आग्न्येय्यां यज्ञसूकर ॥ ६ ॥
चन्द्रसूर्यं समागृह्य खड्गं चान्द्रमसं तथा ।
नैरृत्यां मां च रक्षस्व दिव्यमूर्ते नृकेसरिन् ॥ ७ ॥
वैजयन्तीं सम्प्रगृह्य श्रीवत्सं कण्ठभूषणम् ।
वायव्यां रक्ष मां देव हयग्रीव नमोऽस्तु ते ॥ ८ ॥
वैनतेयं समारुह्य त्वन्तरिक्षे जनार्दन ।
मां च रक्षाजित सदा नमस्तेऽस्त्वपराजित ॥ ९ ॥
विशालाक्षं समारुह्य रक्ष मां त्वं रसातले ।
अकूपार नमस्तुभ्यं महामीन नमोऽस्तु ते ॥ १० ॥
करशीर्षाद्यङ्गुलीषु सत्य त्वं बाहुपञ्जरम् ।
कृत्वा रक्षस्व मां विष्णो नमस्ते पुरुषोत्तम ॥ ११ ॥
एवमुक्तं शङ्कराय वैष्णवं पञ्जरं महत् ।
पुरा रक्षार्थमीशान्याः कात्यायन्या वृषध्वज ॥ १२ ॥
नाशयामास सा येन चामरं महिषासुरम् ।
दानवं रक्तबीजं च अन्यांश्च सुरकण्टकान् ।
एतज्जपन्नरो भक्त्या शत्रून्विजयते सदा ॥ १३ ॥
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये त्रयोदशोऽध्याये
श्री विष्णु पञ्जर स्तोत्रम् ।
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.