Sri Dadhi Vamana Stotram – श्री दधिवामन स्तोत्रम्


हेमाद्रिशिखराकारं शुद्धस्फटिकसन्निभम् ।
पूर्णचन्द्रनिभं देवं द्विभुजं वामनं स्मरेत् ॥ १ ॥

पद्मासनस्थं देवेशं चन्द्रमण्डलमध्यगम् ।
ज्वलत्कालानलप्रख्यं तडित्कोटिसमप्रभम् ॥ २ ॥

सूर्यकोटिप्रतीकाशं चन्द्रकोटिसुशीतलम् ।
चन्द्रमण्डलमध्यस्थं विष्णुमच्युतमव्ययम् ॥ ३ ॥

श्रीवत्सकौस्तुभोरस्कं दिव्यरत्नविभूषितम् ।
पीताम्बरमुदाराङ्गं वनमालाविभूषितम् ॥ ४ ॥

सुन्दरं पुण्डरीकाक्षं किरीटेन विराजितम् ।
षोडशस्त्रीपरिवृतमप्सरोगणसेवितम् ॥ ५ ॥

ऋग्यजुः सामाथर्वाद्यैर्गीयमानं जनार्दनम् ।
चतुर्मुखाद्यैर्देवेशैः स्तोत्राराधनतत्परैः ॥ ६ ॥

सनकाद्यैर्मुनिगणैः स्तूयमानमहर्निशम् ।
त्रियम्बको महादेवो नृत्यते यस्य सन्निधौ ॥ ७ ॥

दधिमिश्रान्नकवलं रुक्मपात्रं च दक्षिणे ।
करे तु चिन्तयेद्वामे पीयूषममलं सुधीः ॥ ८ ॥

साधकानां प्रयच्छन्तमन्नपानमनुत्तमम् ।
ब्राह्मे मुहूर्ते चोत्थाय ध्यायेद्देवमधोक्षजम् ॥ ९ ॥

अतिसुविमलगात्रं रुक्मपात्रस्थमन्नं
सुललितदधिखण्डं पाणिना दक्षिणेन ।
कलशममृतपूर्णं वामहस्ते दधानं
तरति सकलदुःखाद्वामनं भावयेद्यः ॥ १० ॥

क्षीरमन्नमन्नदाता लभेदन्नाद एव च ।
पुरस्तादन्नमाप्नोति पुनरावर्तिवर्जितम् ।
आयुरारोग्यमैश्वर्यं लभते चान्नसम्पदः ॥ ११ ॥

इदं स्तोत्रं पठेद्यस्तु प्रातःकाले द्विजोत्तमः ।
अक्लेशादन्नसिद्ध्यर्थं ज्ञानसिद्ध्यर्थमेव च ॥ १२ ॥

अभ्रश्यामः शुभ्रयज्ञोपवीती
सत्कौपीनः पीतकृष्णाजिनश्रीः
छत्री दण्डी पुण्डरीकायताक्षः
पायाद्देवो वामनो ब्रह्मचारी ॥ १३ ॥

अजिनदण्डकमण्डलुमेखला-
-रुचिरपावनवामनमूर्तये ।
मितजगत्त्रितयाय जितारये
निगमवाक्पटवे वटवे नमः ॥ १४ ॥

श्रीभूमिसहितं दिव्यं मुक्तामणिविभूषितम् ।
नमामि वामनं विष्णुं भुक्तिमुक्तिफलप्रदम् ॥ १५ ॥

वामनो बुद्धिदाता च द्रव्यस्थो वामनः स्मृतः ।
वामनस्तारकोभाभ्यां वामनाय नमो नमः ॥ १६ ॥

इति श्रीवामनपुराणे श्री दधिवामन स्तोत्रम् ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed