Sri Gurumurthy Stotram – श्री गुरुमूर्ति स्तोत्रम्


शिवमद्भुतकीर्तिधरं वरदं
शुभमङ्गलपुण्यपराक्रमदम् ।
करुणाजलधिं कमनीयनुतं
गुरुमूर्तिमहं सततं कलये ॥ १ ॥

बहुदैत्यविनाशकरं भगदं
बहुकालसुखावहदानवरम् ।
बलबुद्धियशोधनधान्यगतं
गुरुमूर्तिमहं सततं कलये ॥ २ ॥

परमं पुरुषं पशुपाशहरं
परयोन्मनया परितोविहितम् ।
फलदं बलदं भजतां तु हि तं
गुरुमूर्तिमहं सततं कलये ॥ ३ ॥

करपल्लवसल्ललिताऽभयदं
गुरुराजवरं गुहमन्त्रगतम् ।
सततं शिवदं सनकादियुतं
गुरुमूर्तिमहं सततं कलये ॥ ४ ॥

ससुतं सवृषं सुलभासनकं
सलिलान्वितचन्द्रकलाकलितम् ।
विमलं कमलासनसन्निहितं
गुरुमूर्तिमहं सततं कलये ॥ ५ ॥

अरुणाचलमीशमभीष्टवरं
करुणार्णवपूरितलोचनकम् ।
तरुणारुणशोभितगात्रममुं
गुरुमूर्तिमहं सततं कलये ॥ ६ ॥

वटदारुवनेवसिनं शशिनं
जटयाधरमादिमनीशमजम् ।
पटुरायतभारतिवाक्यगतं
गुरुमूर्तिमहं सततं कलये ॥ ७ ॥

तपसाह्वयितं तपसां बलदं
तपनोडुपवह्निकलानयनम् ।
कुपितान्तकमादिमनाकुलदं
गुरुमूर्तिमहं सततं कलये ॥ ८ ॥

रजताचलमध्यवसं भसितो-
-ल्लसितं भवरोगसुभेषजकम् ।
भसितीकृतमन्मथमीतिहरं
गुरुमूर्तिमहं सततं कलये ॥ ९ ॥

परमेश्वरमम्बिकयासहितं
हरिपद्मजसन्नुतपादयुगम् ।
परमाद्भुतमोदकरं तनुतां
गुरुमूर्तिमहं सततं कलये ॥ १० ॥

इति श्री गुरुमूर्ति स्तोत्रम् ॥


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed