Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।
पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम बृहस्पति ग्रहपीडापरिहारार्थं बृहस्पति ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं बृहस्पति ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥
– बृहस्पति मन्त्रः –
बृहस्पतयेत्यस्य मन्त्रस्य गृत्समद ऋषिः भुरिगत्यष्टिश्छन्दः बृहस्पतिर्देवता बृहस्पति प्रीत्यर्थे जपे विनियोगः ।
न्यासः –
ओं गृत्समद ऋषये नमः शिरसि ।
ओं भुरिगत्यष्टिश्छन्दसे नमः मुखे ।
ओं बृहस्पति देवतायै नमः हृदये ।
ओं बृहस्पति प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।
करन्यासः –
ओं बृहस्पतेऽअति यदर्यो इति अङ्गुष्ठाभ्यां नमः ।
ओं अर्हाद्द्युमदिति तर्जनीभ्यां नमः ।
ओं विभाति क्रतुमदिति मध्यमाभ्यां नमः ।
ओं जनेषु इति अनामिकाभ्यां नमः ।
ओं यद्दीदयच्छवसऽऋत प्रजाततदस्मासु इति कनिष्ठिकाभ्यां नमः ।
ओं द्रविणं धेहि चित्रमिति करतलकरपृष्ठाभ्यां नमः ।
हृदयादिन्यासः –
ओं बृहस्पतेऽअति यदर्यो इति हृदयाय नमः ।
ओं अर्हाद्द्युमदिति शिरसे स्वाहा ।
ओं विभाति क्रतुमदिति शिखायै वषट् ।
ओं जनेषु इति कवचाय हुम् ।
ओं यद्दीदयच्छवसऽऋत प्रजाततदस्मासु इति नेत्रत्रयाय वौषट् ।
ओं द्रविणं धेहि चित्रमिति अस्त्राय फट् ।
ध्यानम् –
स्वर्णाम्बरः स्वर्णवपुः किरीटी
चतुर्भुजो देवगुरुः प्रशान्तः ।
दधाति दण्डं च कमण्डलुं च
तथाऽक्षसूत्रं वरदोऽस्तु मह्यम् ॥
लमित्यादि पञ्चपूजां कुर्यात् ॥
(य।वे।२६-३)
ओं बृह॑स्पते॒ऽअति॒ यद॒र्योऽअर्हा॑द् द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने॑षु ।
यद्दी॒दय॒च्छव॑सऽ ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ॥
ओं बृहस्पतये नमः ।
समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥
अनेन मया कृत बृहस्पति ग्रहस्य मन्त्र जपेन बृहस्पति सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.