Surya Graha Vedic Mantra – सूर्य ग्रहस्य वैदिक मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम सूर्य ग्रहपीडा परिहारार्थं सूर्य ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं सूर्य ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– १। सूर्य मन्त्रः –

आ कृष्णेनेत्यस्य मन्त्रस्य हिरण्यस्तूप ऋषिः विराट् त्रिष्टुप् छन्दः सूर्यो देवता रजसेति बीजं वर्तमान इति शक्तिः सूर्य प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं हिरण्यस्तूप ऋषये नमः शिरसि ।
ओं विराट् त्रिष्टुप् छन्दसे नमः मुखे ।
ओं सूर्य देवतायै नमः हृदये ।
ओं रजसेति बीजाय नमः गुह्ये ।
ओं वर्तमान शक्तये नमः पादयोः ।
ओं सूर्य प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं आकृष्णेनेति अङ्गुष्ठाभ्यां नमः ।
ओं रजसेति तर्जनीभ्यां नमः ।
ओं वर्तमान इति मध्यमाभ्यां नमः ।
ओं निवेशयन्नमृतं मर्त्यं चेति अनामिकाभ्यां नमः ।
ओं हिरण्ययेन सविता रथेनेति कनिष्ठिकाभ्यां नमः ।
ओं आदेवो याति भुवना विपश्यन्निति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं आकृष्णेनेति हृदयाय नमः ।
ओं रजसेति शिरसे स्वाहा ।
ओं वर्तमान इति शिखायै वषट् ।
ओं निवेशयन्नमृतं मर्त्यं चेति कवचाय हुम् ।
ओं हिरण्ययेन सविता रथेनेति नेत्रत्रयाय वौषट् ।
ओं आदेवो याति भुवना विपश्यन्निति अस्त्राय फट् ।

ध्यानम् –
पद्मासनः पद्मकरो द्विबाहुः
पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी
मयि प्रसादं विदधातु देवः ॥

लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
हं आकाशात्मने पुष्पं परिकल्पयामि ।
यं वाय्वात्मने धूपं परिकल्पयामि ।
रं अग्न्यात्मने दीपं परिकल्पयामि ।
वं अमृतात्मने नैवेद्यं परिकल्पयामि ।
सं सर्वात्मने सर्वोपचारान् परिकल्पयामि ।

(य।वे।३३-४३)
ओं आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय॑न्न॒मृतं॒ मर्त्यं॑ च ।
हि॒र॒ण्यये॑न सवि॒ता रथे॒ना दे॒वो या॑ति॒ भुव॑नानि॒ पश्य॑न् ॥

ओं सूर्याय नमः ।

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत सूर्य ग्रहस्य मन्त्र जपेन सूर्य सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ॥


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed