Sri Ekamukha Hanumath Kavacham – श्री एकमुख हनुमत् कवचम्



एकदा सुखमासीनं शङ्करं लोकशङ्करम् ।
पप्रच्छ गिरिजाकान्तं कर्पूरधवलं शिवम् ॥ १ ॥

पार्वत्युवाच ।
भगवन् देवदेवेश लोकनाथ जगद्गुरो ।
शोकाकुलानां लोकानां केन रक्षा भवेद्ध्रुवम् ॥ २ ॥

सङ्ग्रामे सङ्कटे घोरे भूतप्रेतादिके भये ।
दुःखदावाग्निसन्तप्तचेतसां दुःखभागिनाम् ॥ ३ ॥

ईश्वर उवाच ।
शृणु देवि प्रवक्ष्यामि लोकानां हितकाम्यया ।
विभीषणाय रामेण प्रेम्णा दत्तं च यत्पुरा ॥ ४ ॥

कवचं कपिनाथस्य वायुपुत्रस्य धीमतः ।
गुह्यं ते सम्प्रवक्ष्यामि विशेषाच्छृणु सुन्दरि ॥ ५ ॥

अस्य श्रीहनुमत् कवचस्तोत्रमन्त्रस्य श्रीरामचन्द्र ऋषिः अनुष्टुप् छन्दः श्रीमहावीरो हनुमान् देवता, मारुतात्मज इति बीजं, ओं अञ्जनासूनुरिति शक्तिः, ओं ह्रैं ह्रां ह्रौं इति कवचं स्वाहा इति कीलकं लक्ष्मणप्राणदाता इति बीजं मम सकलकार्यसिद्ध्यर्थे जपे विनियोगः ॥

करन्यासः –
ओं ह्रां अङ्गुष्ठाभ्यां नमः ।
ओं ह्रीं तर्जनीभ्यां नमः ।
ओं ह्रूं मध्यमाभ्यां नमः ।
ओं ह्रैं अनामिकाभ्यां नमः ।
ओं ह्रौं कनिष्ठिकाभ्यां नमः ।
ओं ह्रः करतलकरपृष्ठाभ्यां नमः ।

अङ्गन्यासः –
ओं अञ्जनासूनवे हृदयाय नमः ।
ओं रुद्रमूर्तये शिरसे स्वाहा ।
ओं वायुसुतात्मने शिखायै वषट् ।
ओं वज्रदेहाय कवचाय हुम् ।
ओं रामदूताय नेत्रत्रयाय वौषट् ।
ओं ब्रह्मास्त्रनिवारणाय अस्त्राय फट् ।

दिग्बन्धः –
ओं रामदूताय विद्महे कपिराजाय धीमहि । तन्नो हनुमान् प्रचोदयात् ॥

ओं हुं फट् स्वाहा । इति दिग्बन्धः ॥

ध्यानम् –
ध्यायेद्बालदिवाकरद्युतिनिभं देवारिदर्पापहं
देवेन्द्रप्रमुखप्रशस्तयशसं देदीप्यमानं रुचा ।
सुग्रीवादिसमस्तवानरयुतं सुव्यक्ततत्त्वप्रियं
संरक्तारुणलोचनं पवनजं पीताम्बरालङ्कृतम् ॥ १ ॥

उद्यन्मार्तण्डकोटिप्रकटरुचियुतं चारुवीरासनस्थं
मौञ्जीयज्ञोपवीतारुणरुचिरशिखाशोभितं कुण्डलाङ्गम् ।
भक्तानामिष्टदं तं प्रणतमुनिजनं वेदनादप्रमोदं
ध्यायेद्देवं विधेयं प्लवगकुलपतिं गोष्पदीभूतवार्धिम् ॥ २ ॥

वज्राङ्गं पिङ्गकेशाढ्यं स्वर्णकुण्डलमण्डितम् ।
नियुद्धकर्मकुशलं पारावारपराक्रमम् ॥ ३ ॥

वामहस्ते महावृक्षं दशास्यकरखण्डनम् ।
उद्यद्दक्षिणदोर्दण्डं हनुमन्तं विचिन्तये ॥ ४ ॥

स्फटिकाभं स्वर्णकान्तिं द्विभुजं च कृताञ्जलिम् ।
कुण्डलद्वयसंशोभिमुखाम्भोजं हरिं भजेत् ॥ ५ ॥

उद्यदादित्यसङ्काशमुदारभुजविक्रमम् ।
कन्दर्पकोटिलावण्यं सर्वविद्याविशारदम् ॥ ६ ॥

श्रीरामहृदयानन्दं भक्तकल्पमहीरुहम् ।
अभयं वरदं दोर्भ्यां कलये मारुतात्मजम् ॥ ७ ॥

अन्याजित नमस्तेऽस्तु नमस्ते रामपूजित ।
प्रस्थानं च करिष्यामि सिद्धिर्भवतु मे सदा ॥ ८ ॥

यो वारांनिधिमल्पपल्वलमिवोल्लङ्घ्य प्रतापान्वितो
वैदेहीघनशोकतापहरणो वैकुण्ठतत्त्वप्रियः ।
अक्षाद्यूर्जितराक्षसेश्वरमहादर्पापहारी रणे ।
सोऽयं वानरपुङ्गवोऽवतु सदा युष्मान् समीरात्मजः ॥ ९ ॥

वज्राङ्गं पिङ्गकेशं कनकमयलसत्कुण्डलाक्रान्तगण्डं
नानाविद्याधिनाथं करतलविधृतं पूर्णकुम्भं दृढं च ।
भक्ताभीष्टाधिकारं निहतनरभुजं सर्वदा सुप्रसन्नं
त्रैलोक्यत्राणहेतुं सकलभुवनगं रामदूतं नमामि ॥ १० ॥

उद्यल्लाङ्गूलकेशप्रचलजलधरं भीममूर्तिं कपीन्द्रं
वन्दे रामाङ्घ्रिपद्मभ्रमणपरिवृतं तत्त्वसारं प्रसन्नम् ।
वज्राङ्गं वज्ररूपं कनकमयलसत्कुण्डलाक्रान्तगण्डं
दम्भोलिस्तम्भसारप्रहरणविकटं भूतरक्षोऽधिनाथम् ॥ ११ ॥

वामे करे वीरगदां वहन्तं
शैलं च दक्षे निजकण्ठलग्नम् ।
दधानमासाद्य सुवर्णवर्णं
भजे ज्वलत्कुण्डल रामदूतम् ॥ १२ ॥

पद्मरागमणिकुण्डलत्विषा
पाटलीकृतकपोलमण्डलम् ।
दिव्यदेह कदलीवनान्तरे
भावयामि पवमाननन्दनम् ॥ १३ ॥

ईश्वर उवाच ।
इति वदति विशेषाद्राघवो राक्षसेन्द्रं
प्रमुदितवरचित्तो रावणस्यानुजो हि ।
रघुवरवरदूतं पूजयामास भूयः
स्तुतिभिरतिकृतार्थं स्वं परं मन्यमानः ॥ १४ ॥

वन्दे विद्युद्वलयसुभगं स्वर्णयज्ञोपवीतं
कर्णद्वन्द्वे कनकरुचिरे कुण्डले धारयन्तम् ।
उच्चैर्हृष्यद्द्युमणिकिरणश्रेणिसम्भाविताङ्गं
सत्कौपीनं कपिवरवृतं कामरूपं कपीन्द्रम् ॥ १५ ॥

मनोजवं मारुततुल्यवेगं
जितेन्द्रियं बुद्धिमतां वरिष्ठम् ।
वातात्मजं वानरयूथमुख्यं
श्रीरामदूतं सततं स्मरामि ॥ १६ ॥

न्यासः –
ओं नमो भगवते हृदयाय नमः ।
ओं आञ्जनेयाय शिरसे स्वाहा ।
ओं रुद्रमूर्तये शिखायै वषट् ।
ओं रामदूताय कवचाय हुम् ।
ओं हनुमते नेत्रत्रयाय वौषट् ।
ओं अग्निगर्भाय अस्त्राय फट् ।
ओं नमो भगवते अङ्गुष्ठाभ्यां नमः ।
ओं आञ्जनेयाय तर्जनीभ्यां नमः ।
ओं रुद्रमूर्तये मध्यमाभ्यां नमः ।
ओं वायुसूनवे अनामिकाभ्यां नमः ।
ओं हनुमते कनिष्ठिकाभ्यां नमः ।
ओं अग्निगर्भाय करतलकरपृष्ठाभ्यां नमः ।

मन्त्राः –
ओं ऐं ह्रौं ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः ।
ओं ह्रीं ह्रौं ओं नमो भगवते महाबलपराक्रमाय भूत प्रेत पिशाच शाकिनी डाकिनी यक्षिणी पूतना मारी महामारी भैरव यक्ष वेताल राक्षस ग्रहराक्षसादिकं क्षणेन हन हन भञ्जय भञ्जय मारय मारय शिक्षय शिक्षय महामाहेश्वर रुद्रावतार हुं फट् स्वाहा ॥ १ ॥

ओं नमो भगवते हनुमदाख्य रुद्राय सर्वदुष्टजनमुखस्तम्भनं कुरु कुरु ह्रां ह्रीं ह्रः ठण्ठण्ठं फट् स्वाहा ॥ २ ॥

ओं नमो भगवते अञ्जनीगर्भसम्भूताय रामलक्ष्मणानन्दकराय कपिसैन्यप्रकाशनाय पर्वतोत्पाटनाय सुग्रीवसाधकाय रणोच्चाटनाय कुमारब्रह्मचारिणे गम्भीरशब्दोदयाय ओं ह्रां ह्रीं ह्रः सर्वदुष्टनिवारणाय स्वाहा ॥ ३ ॥

ओं नमो हनुमते सर्वग्रहान् भूतभविष्यद्वर्तमानान् दूरस्थान् समीपस्थान् सर्वकाल दुष्टदुर्बुद्धीनुच्चाटयोच्चाटय परबलानि क्षोभय क्षोभय मम सर्वकार्यं साधय साधय हनुमते ओं ह्रां ह्रीं ह्रूं फट् जहि ओं शिवं सिद्धं ह्रां ह्रीं ह्रौं ओं स्वाहा ॥ ४ ॥

ओं नमो हनुमते परकृत यन्त्रमन्त्र पराहङ्कार भूत प्रेत पिशाच परदृष्टि विघ्नदुर्जनचेटकविद्या सर्वग्रहभयान् निवारय निवारय वध वध पच पच दल दल चिलु चिलु किल किल सर्वकुयन्त्राणि दुष्टवाचं फट् स्वाहा ॥ ५ ॥

ओं नमो हनुमते पाहि पाहि एहि एहि सर्वग्रहभूतानां शाकिनीडाकिनीनां ज्वल ज्वल प्रज्वल प्रज्वल भूतमण्डलं प्रेतमण्डलं पिशाचमण्डलं निवारय निवारय भूतज्वर प्रेतज्वर चातुर्थिकज्वर विषमज्वर माहेश्वरज्वरान् छिन्धि छिन्धि भिन्धि भिन्धि अक्षिशूल वक्षःशूल शिरोऽभ्यन्तरशूल गुल्मशूल पित्तशूल ब्रह्मराक्षसकुल परकुल नागकुल विषं नाशय नाशय निर्विषं कुरु कुरु फट् स्वाहा । ओं ह्रीं सर्वदुष्टग्रहान् निवारय फट् स्वाहा ॥ ६ ॥

ओं नमो हनुमते पवनपुत्राय वैश्वानरमुखाय हन हन अन्त्यादृष्ट्या पापदृष्टिं दुष्टदृष्टिं हन हन हनुमदाज्ञया स्फुर स्फुर फट् स्वाहा ॥ ७ ॥

श्रीरामचन्द्र उवाच ।
हनुमान् पूर्वतः पातु दक्षिणे पवनात्मजः ।
पातु प्रतीच्यां रक्षोघ्नः उत्तरस्यामब्धिपारगः ॥ १ ॥

उदीच्यामूर्ध्वगः पातु केसरीप्रियनन्दनः ।
अधश्च विष्णुभक्तस्तु पातु मध्यं च पावनिः ॥ २ ॥

अवान्तरदिशः पातु सीताशोकविनाशनः ।
लङ्काविदाहकः पातु सर्वापद्भ्यो निरन्तरम् ॥ ३ ॥

सुग्रीवसचिवः पातु मस्तकं वायुनन्दनः ।
भालं पातु महावीरो भ्रुवोर्मध्ये निरन्तरम् ॥ ४ ॥

नेत्रे छायापहारी च पातु नः प्लवगेश्वरः ।
कपोलौ कर्णमूले तु पातु श्रीरामकिङ्करः ॥ ५ ॥

नासाग्रञ्जनीसूनुर्वक्त्रं पातु हरीश्वरः ।
वाचं रुद्रप्रियः पातु जिह्वां पिङ्गललोचनः ॥ ६ ॥

पातु दन्तान् फाल्गुनेष्टश्चिबुकं दैत्यप्राणहृत् ।
पातु कण्ठं च दैत्यारिः स्कन्धौ पातु सुरार्चितः ॥ ७ ॥

भुजौ पातु महातेजाः करौ तु चरणायुधः ।
नखान्नखायुधः पातु कुक्षिं पातु कपीश्वरः ॥ ८ ॥

वक्षो मुद्रापहारी च पातु पार्श्वे भुजायुधः ।
लङ्काविभञ्जनः पातु पृष्ठदेशं निरन्तरम् ॥ ९ ॥

नाभिं च रामदूतस्तु कटिं पात्वनिलात्मजः ।
गुह्मं पातु महाप्राज्ञः सक्थिनी च शिवप्रियः ॥ १० ॥

ऊरू च जानुनी पातु लङ्काप्रासादभञ्जनः ।
जङ्घे पातु महाबाहुर्गुल्फौ पातु महाबलः ॥ ११ ॥

अचलोद्धारकः पातु पादौ भास्करसन्निभः ।
पादान्ते सर्वसत्वाढ्यः पातु पादाङ्गुलीस्तथा ॥ १२ ॥

सर्वाङ्गानि महावीरः पातु रोमाणि चात्मवान् ।
हनुमत् कवचं यस्तु पठेद्विद्वान् विचक्षणः ॥ १३ ॥

स एव पुरुषः श्रेष्ठो भुक्तिं मुक्तिं च विन्दति ।
त्रिकालमेककालं वा पठेन्मासत्रयं सदा ॥ १४ ॥

सर्वान् रिपून् क्षणे जित्वा स पुमान् श्रियमाप्नुयात् ।
मध्यरात्रे जले स्थित्वा सप्तवारं पठेद्यदि ॥ १५ ॥

क्षयाऽपस्मार कुष्ठादि तापत्रयनिवारणम् ।
अर्कवारेऽश्वत्थमूले स्थित्वा पठतिः यः पुमान् ॥ १६ ॥

स एव जयमाप्नोति सङ्ग्रामेष्वभयं तथा ।
अचलां श्रियमाप्नोति सङ्ग्रामे विजयी भवेत् ॥ १७ ॥

यः करे धारयेन्नित्यं स पुमान् श्रियमाप्नुयात् ।
विवाहे दिव्यकाले च द्यूते राजकुले रणे ॥ १८ ॥

भूतप्रेतमहादुर्गे रणे सागरसम्प्लवे ।
दशवारं पठेद्रात्रौ मिताहारी जितेन्द्रियः ॥ १९ ॥

विजयं लभते लोके मानवेषु नराधिपः ।
सिंहव्याघ्रभये चाग्नौ शरशस्त्रास्त्रयातने ॥ २० ॥

शृङ्खलाबन्धने चैव काराग्रहनियन्त्रणे ।
कायस्तम्भे वह्निदाहे गात्ररोगे च दारुणे ॥ २१ ॥

शोके महारणे चैव ब्रह्मग्रहविनाशने ।
सर्वदा तु पठेन्नित्यं जयमाप्नोत्यसंशयम् ॥ २२ ॥

भूर्जे वा वसने रक्ते क्षौमे वा तालपत्रके ।
त्रिगन्धेनाथवा मष्या लिखित्वा धारयेन्नरः ॥ २३ ॥

पञ्चसप्तत्रिलोहैर्वा गोपितं कवचं शुभम् ।
गले कट्यां बाहुमूले कण्ठे शिरसि धारितम् ।
सर्वान् कामानवाप्नोति सत्यं श्रीरामभाषितम् ॥ २४ ॥

इति श्रीब्रह्माण्डपुराणे श्री एकमुख हनुमत् कवचम् ॥


మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed