Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नैमिशे निमिशक्षेत्रे गोमत्या समलङ्कृते ।
हरेराराधनासक्तं वन्दे विखनसं मुनिम् ॥ १ ॥
रेचकैः पूरकैश्चैव कुम्भकैश्च समायुतम् ।
प्राणायामपरं नित्यं वन्दे विखनसं मुनिम् ॥ २ ॥
तुलसीनलिनाक्षैश्च कृतमाला विभूषितम् ।
अञ्चितैरूर्ध्वपुण्ड्रैश्च वन्दे विखनसं मुनिम् ॥ ३ ॥
तुलसीस्तबकैः पद्मैर्हरिपादार्चनारतम् ।
शान्तं जितेन्द्रियं मौनिं वन्दे विखनसं मुनिम् ॥ ४ ॥
कुण्डलाङ्गदहाराद्यैर्मुद्रिकाभिरलङ्कृतम् ।
सर्वाभरणसम्युक्तं वन्दे विखनसं मुनिम् ॥ ५ ॥
रत्नकङ्कणमञ्जीर कटिसूत्रैरलङ्कृतम् ।
काञ्चीपीताम्बरधरं वन्दे विखनसं मुनिम् ॥ ६ ॥
शरच्चन्द्रप्रतीकाशैर्धवलैरुपवीतकैः ।
सोत्तरीयं बद्धशिखं वन्दे विखनसं मुनिम् ॥ ७ ॥
कम्बुग्रीवं विशालाक्षं विकसत्पङ्कजाननम् ।
कन्दर्पकोटिलावण्यं वन्दे विखनसं मुनिम् ॥ ८ ॥
कुन्देन्दुशङ्खसदृश दन्तपङ्क्त्या विराजितम् ।
सूर्यकोटिनिभं कान्त्या वन्दे विखनसं मुनिम् ॥ ९ ॥
ज्वालामणिगणप्रख्य नखपङ्क्त्या सुशोभितम् ।
कराभ्यामञ्जलिकरं वन्दे विखनसं मुनिम् ॥ १० ॥
वन्दे विखनसं साक्षाद्ब्रह्मरूपं मुनीश्वरम् ।
श्रुतिस्मृतीतिहासज्ञैः ऋषिभिः समभिष्ठुतम् ॥ ११ ॥
वन्दे भृगुं तपोनिष्ठं मरीचिं च महामुनिम् ।
अत्रिं चैव त्रिकालज्ञं काश्यपं ब्रह्मवादिनम् ॥ १२ ॥
एतद्विखनसस्तोत्रं प्रातरुत्थाय यः पठेत् ।
दिवा च यदि वा रात्रौ समेषु विषमेषु च ।
न भयं विन्दते किञ्चित्कार्यसिद्धिं च गच्छति ॥ १३ ॥
एतद्विखनसस्तोत्रं यः पठेद्धरिसन्निधौ ।
विष्णोराराधने काले जपकाले विशेषतः ॥ १४ ॥
य एतत् प्रातरुत्थाय नित्यं च प्रयतः पठेत् ।
पुत्रः पौत्रैर्धनं तस्य आयुरारोग्यसम्पदः ॥ १५ ॥
एतैर्युक्तो महाभोगी इहलोके सुखी भवेत् ।
अन्ते विमानमारुह्य विष्णुलोकं च गच्छति ॥ १६ ॥
इति श्री विखनस स्तोत्रम् ।
इतर श्री विखनस स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.