Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
स्मरण –
अर्जुनः कृतवीर्यस्य सप्तद्वीपेश्वरोऽभवत् ।
दत्तात्रेयाद्धरेरंशात् प्राप्तयोगमहागुणः ॥
न नूनं कार्तवीर्यस्य गतिं यास्यन्ति पार्थिवाः ।
यज्ञदानतपोयोगैः श्रुतवीर्यदयादिभिः ॥
पञ्चाशीतिसहस्राणि ह्यव्याहतबलः समाः ।
अनष्टवित्तस्मरणो बुभुजेऽक्षय्यषड्वसु ॥
ध्यानम् –
सहस्रबाहुं महितं सशरं सचापं
रक्ताम्बरं विविध रक्तकिरीटभूषम् ।
चोरादिदुष्टभयनाशनमिष्टदं तं
ध्यायेन्महाबलविजृम्भितकार्तवीर्यम् ॥
मन्त्रं –
ओं कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् ।
तस्य संस्मरणादेव हृतं नष्टं च लभ्यते ॥
द्वादशनामानि –
कार्तवीर्यः खलद्वेषी कृतवीर्यसुतो बली । [सहस्राक्षः]
सहस्रबाहुः शत्रुघ्नो रक्तवासा धनुर्धरः ॥ २ ॥
रक्तगन्धो रक्तमाल्यो राजा स्मर्तुरभीष्टदः ।
द्वादशैतानि नामानि कार्तवीर्यस्य यः पठेत् ॥ ३ ॥
[ अनष्टद्रव्यता तस्य नष्टस्य पुनरागमः । ]
सम्पदस्तस्य जायन्ते जनास्तस्य वशं गतः ।
आनयत्याशु दूरस्थं क्षेमलाभयुतं प्रियम् ॥ ४ ॥
यस्य स्मरणमात्रेण सर्वदुःखक्षयो भवेत् ।
यन्नामानि महावीर्यश्चार्जुनः कृतवीर्यवान् ॥ ६ ॥
हैहयाधिपतेः स्तोत्रं सहस्रावृत्तिकारितम् ।
वाञ्चितार्थप्रदं नॄणां स्वराज्यं सुकृतं यदि ॥ ७ ॥
इति कार्तवीर्यार्जुन स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.