Surya Graha Beeja Mantra – सूर्य ग्रहस्य बीज मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ मम सूर्य ग्रहपीडापरिहारार्थं सूर्य ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं सूर्य ग्रहस्य बीजमन्त्र जपं करिष्ये ॥

– सूर्यः –

ध्यानम् –
पद्मासनः पद्मकरो द्विबाहुः
पद्मद्युतिः सप्ततुरङ्गवाहः ।
दिवाकरो लोकगुरुः किरीटी
मयि प्रसादं विदधातु देवः ॥

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम् ।
तमोऽरिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥

लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
हं आकाशात्मने पुष्पं परिकल्पयामि ।
यं वाय्वात्मने धूपं परिकल्पयामि ।
रं अग्न्यात्मने दीपं परिकल्पयामि ।
वं अमृतात्मने नैवेद्यं परिकल्पयामि ।
सं सर्वात्मने सर्वोपचारान् परिकल्पयामि ।

बीजमन्त्रः –
ओं ह्रां ह्रीं ह्रौं सः सूर्याय नमः । (७०००)

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत सूर्य ग्रहस्य मन्त्रजपेन सूर्य ग्रहदेवता सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed