Sri Vishnu Vijaya Stotram – श्री विष्णु विजय स्तोत्रम्


देवा ऊचुः ।
नताः स्म विष्णुं जगदादिभूतं
सुरासुरेन्द्रं जगतां प्रपालकम् ।
यन्नाभिपद्मात् किल पद्मयोनि-
-र्बभूव तं वै शरणं गताः स्मः ॥ १ ॥

नमो नमो मत्स्यवपुर्धराय
नमोऽस्तु ते कच्छपरूपधारिणे ।
नमः प्रकुर्मश्च नृसिंहरूपिणे
तथा पुनर्वामनरूपिणे नमः ॥ २ ॥

नमोऽस्तु ते क्षत्रविनाशनाय
रामाय रामाय दशास्यनाशिने ।
प्रलम्बहन्त्रे शितिवाससे नमो
नमोऽस्तु बुद्धाय च दैत्यमोहिने ॥ ३ ॥

म्लेच्छान्तकायापि च कल्किनाम्ने
नमः पुनः क्रोडवपुर्धराय ।
जगद्धितार्थं च युगे युगे भवान्
बिभर्ति रूपं त्वसुराभवाय ॥ ४ ॥

निषूदितोऽयं ह्यधुना किल त्वया
दैत्यो हिरण्याक्ष इति प्रगल्भः ।
यश्चेन्द्रमुख्यान् किल लोकपालान्
संहेलया चैव तिरश्चकार ॥ ५ ॥

स वै त्वया देवहितार्थमेव
निपातितो देववर प्रसीद ।
त्वमस्य विश्वस्य विसर्गकर्ता
ब्राह्मेण रूपेण च देवदेव ॥ ६ ॥

पाता त्वमेवास्य युगे युगे च
रूपाणि धत्से सुमनोहराणि ।
त्वमेव कालाग्निहरश्च भूत्वा
विश्वं क्षयं नेष्यसि चान्तकाले ॥ ७ ॥

अतो भवानेव च विश्वकारणं
न ते परं जीवमजीवमेव च ।
यत्किञ्च भूतं च भविष्यरूपं
प्रवर्तमानं च तथैव रूपम् ॥ ८ ॥

सर्वं त्वमेवासि चराचराख्यं
न भाति विश्वं त्वदृते च किञ्चित् ।
अस्तीति नास्तीति च भेदनिष्ठं
त्वय्येव भातं सदसत्स्वरूपम् ॥ ९ ॥

ततो भवन्तं कतमोऽपि देव
न ज्ञातुमर्हत्यविपक्वबुद्धिः ।
कृते भवत्पादपरायणं जनं
तेनागताः स्मः शरणं शरण्यम् ॥ १० ॥

व्यास उवाच ।
ततो विष्णुः प्रसन्नात्मा उवाच त्रिदिवौकसः ।
तुष्टोऽस्मि देवा भद्रं वो युष्मत् स्तोत्रेण साम्प्रतम् ॥ ११ ॥

य इदं प्रपठेद्भक्त्या विजयस्तोत्रमादरात् ।
न तस्य दुर्लभं देवास्त्रिषु लोकेषु किञ्चन ॥ १२ ॥

गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ।
तत्फलं समवाप्नोति कीर्तनश्रवणान्नरः ॥ १३ ॥

सर्वकामप्रदं नित्यं देवदेवस्य कीर्तनम् ।
अतः परं महाज्ञानं न भूतं न भविष्यति ॥ १४ ॥

इति पद्मपुराणोक्तं श्री विष्णु विजय स्तोत्रम् ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed