Sri Dakshinasya Pancharatna Stotram – श्री दक्षिणास्य पञ्चरत्न स्तोत्रम्


पुरा माययापीडितं दर्पयुक्तं
महाधर्मरूपं त्रिषं तस्य भागे ।
शिखाबन्धनात्केशमेकं निधाय
मुदा पालितं भावये दक्षिणास्यम् ॥ १ ॥

सदा यक्षगन्धर्वविद्याधराद्यैः
गणैः सेवितं तैः परिभ्राजमानम् ।
महासूक्ष्मतात्पर्यबोधं महेशं
परानन्ददं भावये दक्षिणास्यम् ॥ २ ॥

पुराकेकरूपार्तगौरीहृदब्जे
मुदानर्तनीयस्यमायूरशस्य ।
सदा दर्शनात् पूत रूपाप्तनद्याः
सुवामेविषं भावये दक्षिणास्यम् ॥ ३ ॥

तुलामासदर्शं गते पुणकाले
शुचौ सप्तनद्यः शिवं भावितास्थाः ।
कवेरेजयापूतनास्ता भवन्ति
तथा वन्दितं भावये दक्षिणास्यम् ॥ ४ ॥

वदान्यस्य देवस्य भागे निविष्टं
पदाम्भोजभाजस्य भूतिप्रदानम् ।
मुदा बालकानां तु वाणी प्रदानं
सदानन्ददं भावये दक्षिणास्यम् ॥ ५ ॥

इति श्री दक्षिणास्य पञ्चरत्न स्तोत्रम् ॥


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed