Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– पूर्वपीठिका –
श्रीपार्वत्युवाच ।
देवेश श्रोतुमिच्छामि रहस्यातिरहस्यकम् ।
सुगुप्तमपि मे देव कथयस्व महेश्वर ॥ १ ॥
ईश्वर उवाच ।
रहस्यातिरहस्यं च गोप्याद्गोप्यं महत्तरम् ।
न कुत्रापि मया प्रोक्तं सर्वस्वमपि पार्वति ॥ २ ॥
कथ्यते सारभूतं हि सर्वतन्त्रेषु दुर्लभम् ।
तव प्रीत्यै महेशानि यथावदवधारय ॥ ३ ॥
पुरा कैलासशिखरे विश्वरूपो विराट्छिवः ।
दक्षिणामूर्तिरूपं तु कृत्वा वटतले स्थितः ॥ ४ ॥
ऋषीश्वराणां देवानां ज्ञानार्थं परमेश्वरि ।
दक्षिणामूर्तिरूपो हि सर्वदेवस्वरूपधृत् ॥ ५ ॥
अवतीर्णो महेशानि सच्चिदानन्दविग्रहः ।
श्रीवीरदक्षिणामूर्तिस्ततश्चैव वटाभिधः ॥ ६ ॥
श्रीलक्ष्मीदक्षिणामूर्तिर्मेधाख्यस्तु तुरीयकः ।
तस्य नाम सहस्रं च वेदसाररहस्यकम् ॥ ७ ॥
यदेकवारपठनाद्ब्रह्मा वेदार्थपारगः ।
विष्णुर्विष्णुत्वमेतेन देवा देवत्वमाप्नुयुः ॥ ८ ॥
यत्सकृत्पठनादेव पाण्डित्यं स्याच्चतुर्विधम् ।
त्रैलोक्यराज्यं सत्काव्यं महाश्रुतिपरम्परा ॥ ९ ॥
शापानुग्रहसामर्थ्यं पाण्डित्यं स्याच्चतुर्विधम् ।
भवत्येव महेशानि महाभाष्यादिकारकः ॥ १० ॥
किं पुनर्बहुनोक्तेन ब्रह्मत्वं भवति क्षणात् ।
एतस्मादधिका सिद्धिः ब्रह्माण्डं गोलकादिषु ॥ ११ ॥
ब्रह्माण्डगोलके याश्च याः काश्चिज्जगतीतले ।
समस्तसिद्धयो देवि वाचकस्य करे स्थिताः ॥ १२ ॥
कैवल्यं लभते योगी नामसाहस्रपाठकः ।
श्रीमेधादक्षिणामूर्तिनामसाहस्रकस्य च ॥ १३ ॥
ब्रह्मा ऋषिर्महेशानि गायत्री छन्द ईरितम् ।
देवता दक्षिणामूर्तिः प्रणवो बीजमुच्यते ॥ १४ ॥
स्वाहा शक्तिर्महेशानि नमः कीलकमीरितम् ।
मातृकादीर्घषट्कैस्तु षडङ्गन्यास ईरितः ॥ १५ ॥
वटमूले महच्छिद्रं सुन्दरः परमः शिवः ।
तरुणो मौनयुक्छम्भुर्मुनयः पण्डितोत्तमाः ।
इति सञ्चिन्त्य देवस्य नामसाहस्रकं पठेत् ॥ १६ ॥
अस्य श्रीदक्षिणामूर्ति दिव्यसहस्रनामस्तोत्र महामन्त्रस्य ब्रह्मा ऋषिः, गायत्री छन्दः, श्रीदक्षिणामूर्तिर्देवता, ओं बीजं, स्वाहा शक्तिः, नमः कीलकं, मम श्रीदक्षिणामूर्ति प्रसादसिद्ध्यर्थे जपे विनियोगः ॥
आमित्यादिषडङ्गन्यासः ॥
ध्यानम् –
वटमूले महच्चित्रं सुन्दरः परमः शिवः ।
तरुणो मौनयुक्छम्भुर्मुनयः पण्डितोत्तमाः ॥
स्तोत्रम् –
ओम् । दक्षिणो दक्षिणामूर्तिर्दयालुर्दीनवल्लभः ।
दीनार्तिहृद्दीनबन्धुर्दीननाथो दयापरः ॥ १ ॥
दारिद्र्यशमनोऽदीनो दार्ढ्यो दानवनाशकः ।
दनुजारिर्दुःखहन्ता दुष्टभूतनिषूदनः ॥ २ ॥
दीनोरुदायको दान्तो दीप्तिमान् दिव्यलोचनः ।
देदीप्यमानो दुर्गेशः श्रीदुर्गावरदायकः ॥ ३ ॥
दरीसंस्थो दानरूपो दानसन्मानतोषितः ।
दाता दाडिमपुष्पाभो दाडिमीपुष्पभूषितः ॥ ४ ॥
दैन्यहा दुरितघ्नश्च दिशावासो दिगम्बरः ।
दिक्पतिर्दीर्घसूत्रश्च दलदम्बुजलोचनः ॥ ५ ॥
दक्षिणाप्रेमसन्तुष्टो दारिद्र्यबडबानलः ।
दक्षिणावरदो दक्षो दक्षाध्वरविनाशनः ॥ ६ ॥
दामोदरप्रियो दीर्घो दीर्घिकाजलमध्यगः ।
धर्मो धनप्रदो ध्येयो धीमान् धैर्यविभूषितः ॥ ७ ॥
धरणीधारको धाता धनाध्यक्षो धुरन्धरः ।
धीर्धारणो धिन्धिमिकृन्नग्नो नारायणो नरः ॥ ८ ॥
नरनाथप्रियो नाथो नदीपुलिनसंस्थितः ।
नानारूपधरो नम्यो नान्दीश्राद्धप्रियो नटः ॥ ९ ॥
नटाचार्यो नटवरो नारीमानसमोहनः ।
नीतिप्रियो नीतिधरो नानामन्त्ररहस्यवित् ॥ १० ॥
नारदो नामरहितो नौकारूढो नटप्रियः ।
परमः परमार्थश्च परविद्याप्रकर्षणः ॥ ११ ॥
पतिः पातित्यसंहर्ता परमेशः पुरातनः ।
पुराणपुरुषः पुण्यः पद्यगद्यविशारदः ॥ १२ ॥
पद्मप्रियः पाशहस्तः परमार्थः परायणः ।
प्रीतः पुराणपुरुषः पुराणागमसूचकः ॥ १३ ॥
पुराणवेत्ता पापघ्नः पार्वतीशः परार्थवित् ।
पद्मावतीप्रियः पापहारी पररहस्यवित् ॥ १४ ॥
पार्वतीरमणः पीनः पीतवासाः परात्परः ।
पशूपहाररसिकः पाशी पशुपतिः पतिः ॥ १५ ॥
पक्षीन्द्रवाहनः पाता पुत्रदः पुत्रपूजितः ।
फणिनाथः फूत्कृतिश्च फट्कारः फें परायणः ॥ १६ ॥
फें बीजजपसन्तुष्टः फूत्कारः फणिभूषितः ।
फणिविद्यामयः फ्रें फ्रें फ्रैं फ्रैं शब्दपरायणः ॥ १७ ॥
षडस्त्रजपसन्तुष्टो बलिभुग्बाणभूषितः ।
बाणपूजारतो ब्लून्तो ब्लूम्बीजजपतोषितः ॥ १८ ॥
बर्हिर्मुखो बालमतिर्बालेशो बालभावधृत् ।
बालप्रियो बालगतिर्बलीवर्दप्रियो बलः ॥ १९ ॥
बालचन्द्रप्रियो बालो बालाशब्दपरायणः ।
ब्रह्मास्थिभेदको ब्रह्मज्ञानी ब्राह्मणपालकः ॥ २० ॥
भगवान् भूपतिर्भद्रो भद्रदो भद्रवाहनः ।
भूताध्यक्षो भूतपतिर्भूतोभीतिनिवारणः ॥ २१ ॥
भीमो भयानको भ्राता भ्रान्तो भस्मासुरप्रियः ।
भस्मभूषो भस्मसंस्थो भैक्षकर्मपरायणः ॥ २२ ॥
भानुभूषो भानुरूपो भवानीप्रीतिदो भवः ।
भर्गो देवो भगावासो भगपूजापरायणः ॥ २३ ॥
भावप्रियो भावरतो भावाभावविवर्जितः ।
भर्गो भार्यासन्धियुक्तो भा भी शब्दपरायणः ॥ २४ ॥
भ्रां बीजजपसन्तुष्टो भट्टारो भद्रवाहनः ।
भट्टारको भीमगर्भो भीमासङ्गमलोलुपः ॥ २५ ॥
भद्रदो भ्रान्तिरहितो भीमचण्डीपतिर्भवान् ।
भवानीजपसन्तुष्टो भवानीपूजनोत्सुकः ॥ २६ ॥
भ्रमरो भ्रमरीयुक्तो भ्रमराम्बाप्रपूजितः ।
महादेवो महानाथो महेशो माधवप्रियः ॥ २७ ॥
मधुपुष्पप्रियो माध्वीपानपूजापरायणः ।
मधुर्माध्वीप्रियो मीनो मीनाक्षीनायको महान् ॥ २८ ॥
मारीहरो मदनहृन्माननीयो मदोद्धतः ।
माधवो मानरहितो म्रीं बीजजपतोषितः ॥ २९ ॥
मधुपानरतो मौनी महर्षिर्मोहनास्त्रवित् ।
महाताण्डवकृन्मन्त्रो मन्त्रपूजापरायणः ॥ ३० ॥
मूर्तिर्मुद्राप्रियो मित्रो मित्रसन्तुष्टमानसः ।
म्रीं म्रीं मधुमतीनाथो महादेवप्रियो मृडः ॥ ३१ ॥
यादोनिधिर्यज्ञपतिर्यतिर्यज्ञपरायणः ।
यज्वा यागपरो यायी यायीभावप्रियो युजः ॥ ३२ ॥
यातायातादिरहितो यतिधर्मपरायणः ।
यत्नसाध्वी यष्टिधरो यजमानप्रियो यदुः ॥ ३३ ॥
यजुर्वेदप्रियो यामी यमसम्यमनो यमः ।
यमपीडाहरो युक्तो योगी योगीश्वरालयः ॥ ३४ ॥
याज्ञवल्क्यप्रियो योनिर्योनिदोषविवर्जितः ।
यामिनीनाथभूषी च यदुवंशसमुद्भवः ॥ ३५ ॥
यक्षो यक्षप्रियो रम्यो रामो राजीवलोचनः ।
रात्रिञ्चरो रात्रिचरो रामेशो रामपूजितः ॥ ३६ ॥
रमापूज्यो रमानाथो रत्नदो रत्नहारकः ।
राज्यदो रामवरदो रञ्जको रीतिमार्गवित् ॥ ३७ ॥
रमणीयो रघूनाथो रघुवंशप्रवर्तकः ।
रामानन्दमयो राजा राजराजेश्वरो रसः ॥ ३८ ॥
रत्नमन्दिरमध्यस्थो रत्नपूजापरायणः ।
रत्नाकरो लक्षणेशो लक्ष्यदो लक्ष्यलक्षणः ॥ ३९ ॥
लक्ष्मीनाथप्रियो लाली लम्बिकायोगमार्गवित् ।
लब्धिलक्ष्यो लब्धिसिद्धो लभ्यो लाक्षारुणेक्षणः ॥ ४० ॥
लोलाक्षीनायको लोभो लोकनाथो लतामयः ।
लतापुञ्जामरो लोलो लक्षमन्त्रजपप्रियः ॥ ४१ ॥
लम्बिकामार्गनिरतो लक्षकोट्यर्बुदान्तकः ।
वाणीप्रियो वावदूको वादी वादपरायणः ॥ ४२ ॥
वीरमार्गरतो वीरो वीरचर्यापरायणः ।
वरेण्यो वरदो वामो वाममार्गप्रवर्तकः ॥ ४३ ॥
वामदेवो वागधीशो वीणाढ्यो वेणुतत्परः ।
विद्याप्रियो वीतिहोत्रो वीरविद्याविशारदः ॥ ४४ ॥
वर्ग्यो वर्गप्रियो वायू वायुवेगपरायणः ।
वार्ताज्ञश्च वशीकारी वरिष्ठो वामवृत्तकः ॥ ४५ ॥
वसिष्ठो वाक्पतिर्वैद्यो वामनो वसुदो विराट् ।
वाराहीपालको वन्यो वनवासी वनप्रियः ॥ ४६ ॥
वनदुर्गापतिर्वारी धारी वाराङ्गनाप्रियः ।
वनेचरो वनचरः शक्तिपूज्यः शिखीसखः ॥ ४७ ॥
शम्याकमौलिः शान्तात्मा शक्तिमार्गपरायणः ।
शरच्चन्द्रनिभः शान्तः शक्तिः संशयवर्जितः ॥ ४८ ॥
शचीपतिः शक्रपूज्यः शरस्थः शापवर्जितः ।
शापानुग्रहदः शङ्खप्रियः शत्रुनिषूदनः ॥ ४९ ॥
शरीरयोगी शीतारिः शक्तिः शर्मगतः शुभः ।
शुक्रपूज्यः शुक्रभोगी शुक्रभक्षणतत्परः ॥ ५० ॥
शारदानायकः शौरिः षण्मुखः षड्भुजः षडः ।
षण्डः षडङ्गः षट्कोशः षडध्वयगतत्परः ॥ ५१ ॥
षडाम्नायरहस्यज्ञः षष्टिजीवपरायणः ।
षट्चक्रभेदनः षष्ठीनाथः षड्दर्शनाह्वयः ॥ ५२ ॥
षष्ठीदोषहरः षट्कः षट्छास्त्रार्थरहस्यवित् ।
षडूर्मिश्चैव षड्वर्गः षडैश्वर्यफलप्रदः ॥ ५३ ॥
षड्गुणः षण्मुखोपेतः षष्ठिबालः षडात्मकः ।
षट्कृत्तिकासमाजस्थः षडाधारनिवासकः ॥ ५४ ॥
षोढान्यासप्रियः सिन्धुः सुन्दरः सुरसुन्दरः ।
सुराराध्यः सुरपतिः सुमुखः सुमनाः सुरः ॥ ५५ ॥
सुभगः सर्ववित्सौम्यः सिद्धिमार्गप्रवर्तकः ।
सहजानन्दनः सोमः सर्वशास्त्ररहस्यवित् ॥ ५६ ॥
समिद्धोमप्रियः सर्वः सर्वशक्तिसुपूजितः ।
सुरदेवः सुदेवश्च सन्मार्गः सिद्धिदर्शकः ॥ ५७ ॥
सर्वजित्सर्वदिक्साधुः सर्वधर्मसमन्वितः ।
सर्वाध्यक्षः सर्वदेवः सन्मार्गः सूचनार्थवित् ॥ ५८ ॥ [सर्ववेद्यः]
हारी हरिर्हरो हृद्यो हरो हर्षप्रदो हरिः ।
हठयोगी हठरतो हरिवाही हरिध्वजः ॥ ५९ ॥
हरिमार्गरतो ह्रीं च हरीतवरदायकः ।
हरीतवरदो हीनो हितकृद्धिङ्कृतिर्हविः ॥ ६० ॥ [-कृत]
हविष्यभुग्घविष्याशी हरिद्वर्णो हरात्मकः ।
हैहयेशो ह्रीङ्कृतिश्च हरमानसतोषणः ॥ ६१ ॥
हुङ्कारजपसन्तुष्टो ह्रौं बीजजपचिन्तितः ।
हितकारी हरिणदृग्घरितो हरनायकः ॥ ६२ ॥
हरिप्रियो हरिरतो हाहाशब्दपरायणः ।
क्षेमकारिप्रियः क्षौम्यः क्ष्माभृत् क्षपणकः क्षरः ॥ ६३ ॥
क्षाङ्कारबीजनिलयः क्षमावान् क्षोभवर्जितः ।
क्षोभहारी क्षोभकारी क्ष्माबीजः क्ष्मास्वरूपधृत् ॥ ६४ ॥
क्षेङ्कारबीजनिरतः क्षौमाम्बरविभूषणः ।
क्षोणीपतिप्रियकरः क्षपापालः क्षपाकरः ॥ ६५ ॥
क्षेत्रज्ञः क्षेत्रपालश्च क्षयरोगक्षयङ्करः ।
क्षामोदरः क्षामगात्रः क्षयमासः क्षयानुगः ॥ ६६ ॥
अभूतोऽनन्तवरदो ह्यनसूयाप्रियङ्करः । [अद्भुतो]
अत्रिपुत्रोऽग्निगर्भश्चाप्यच्युतोऽनन्तविक्रमः ॥ ६७ ॥
आदिमध्यान्तरहितश्चाणिमादिगुणाकरः ।
अक्षरोऽनुगुणैश्वर्यश्चार्हेवाच्यस्त्वहंमतिः ॥ ६८ ॥
आदित्योऽष्टगुणश्चात्मा चाध्यात्मप्रीतमानसः ।
आद्यश्चाज्यप्रियश्चात्मा त्वाम्रपुष्पविभूषणः ॥ ६९ ॥
आम्रपुष्पप्रियः प्राण आर्ष आम्रातकेश्वरः ।
इङ्गितज्ञस्तथेष्टज्ञ इष्टभूत इषुस्तथा ॥ ७० ॥
इष्टापूर्तप्रियश्चेष्ट ईश्वरश्चेशवल्लभः ।
ईकारश्चेश्वराधीन ईक्षितश्चेशवाचकः ॥ ७१ ॥
उत्कश्चोकारगर्भश्चाप्युकाराय नमो नमः ।
ऊहापोहविनिर्मुक्तश्चोषा चोषामणिस्तथा ॥ ७२ ॥
ऋद्धिकारी ऋद्धिरूपी ऋद्धिप्रावर्तकेश्वरः ।
ॠकारवर्णभूषाढ्य ॠकाराय नमो नमः ॥ ७३ ॥
लु*कारगर्भसम्युक्त लू*काराय नमो नमः ।
एकारगर्भश्चैकस्य एषश्चैतत्प्रवर्तकः ॥ ७४ ॥
एक एकाक्षरश्चैकवीरप्रियतराय ते ।
एकवीरापतिश्चैव ऐं ऐं शब्दपरायणः ॥ ७५ ॥
ऐन्द्रप्रियश्चैक्यकारी ऐं बीजजपतत्परः ।
ओघश्चौकारबीजश्च ओङ्काराय नमो नमः ॥ ७६ ॥
ओङ्कारबीजनिलयश्चौङ्कारेश्वरपूजितः ।
अन्तिकोऽन्तिमवर्णश्च अं अः वर्णाञ्चितोऽञ्चितः ॥ ७७ ॥
कलङ्कहीनः कङ्कालः क्रूरः कुक्कुटवाहनः ।
कामिनीवल्लभः कामी कामार्तः कमनीयकः ॥ ७८ ॥
कलानिधिः कीर्तिनाथः कामेशीहृदयङ्गमः ।
कामेश्वरः कामरूपः कालकालः कलानिधिः ॥ ७९ ॥
कृष्णः काशीपतिः कालः कुलचूडामणिः करः ।
केशवः केवलः कान्तः कालिकावरदायकः ॥ ८० ॥
काश्मीरसम्प्रदायज्ञः कालः कामकलात्मकः ।
खट्वाङ्गपाणिः खातीतः खरशूरः खरान्तकृत् ॥ ८१ ॥
खेलनः खेटकः खड्गः खड्गनाथः खगेश्वरः ।
खेचरः खेचरनाथो गणनाथसहोदरः ॥ ८२ ॥
गाढो गगनगम्भीरो गोपालो गूर्जरो गुरुः ।
गणेशो गायको गोप्ता गायत्रीवल्लभो गरुत् ॥ ८३ ॥
गोमतो गरुडो गौरो गोपीशो गिरिशो गुहः ।
गतिर्गम्यो गोपनीयो गोमयो गोचरो गणः ॥ ८४ ॥
गोरम्भापुष्परुचिरो गाणापत्यो गणप्रियः ।
घण्टाकर्णो घर्मरश्मिर्घृणिर्घण्टाप्रियो घटः ॥ ८५ ॥
घटसर्पो घूर्णितश्च घृमणिर्घृतकम्बलः ।
घण्टानिनादरुचिरो घृणालज्जाविवर्जितः ॥ ८६ ॥
घृणिमन्त्रजपप्रीतः घृतयोनिर्घृतप्रियः ।
घर्घरो घोरनादश्च घोरशास्त्रप्रवर्तकः ॥ ८७ ॥
घनाघनो घोषयुक्तो घोटको घोटकेश्वरः ।
घनो घनरुचिर्घ्रां घ्रीं घ्रूं घ्रैं घ्रौं मन्त्ररूपधृत् ॥ ८८ ॥
घनश्यामो घटजनुः घटोत्कीर्णो घटात्मकः ।
घटोथ घुघुको घूको चतुरश्चञ्चलश्चलः ॥ ८९ ॥
चक्री चक्रधरश्चक्रश्चिम्बीजजपतत्परः ।
चण्डश्चण्डीश्वरश्चारुश्चक्रपाणिश्चराचरः ॥ ९० ॥
चराचरमयश्चिन्तामणिश्चिन्तितसारथिः ।
चण्डरश्मिश्चन्द्रमौलिश्चण्डीहृदयनन्दनः ॥ ९१ ॥
चक्राङ्कितश्चण्डदेवप्रियश्चण्डालशेखरः ।
चण्डश्चण्डालदमनश्चित्रितश्चिन्तितार्थवित् ॥ ९२ ॥
चित्रार्पितश्चित्रमयश्चिद्विद्यश्चिन्मयश्च चित् ।
चिच्छक्तिश्चेतनश्चित्यश्चिदाभासश्चिदात्मकः ॥ ९३ ॥
छद्मचारी छद्मगतिश्छात्रश्छत्रप्रियच्छविः ।
छेदकश्छेदनश्छन्दश्छन्दः शास्त्रविशारदः ॥ ९४ ॥
छन्दोमयश्च छन्दज्ञश्छन्दसां पतिरित्यपि ।
छन्दश्छेदश्छादनीयश्छन्नश्छद्मरहस्यवित् ॥ ९५ ॥
छत्रधारी छत्रपतिश्छत्रदश्छत्रपालकः ।
छिन्नाप्रियश्छिन्नमस्तश्छिन्नमन्त्रप्रसादकः ॥ ९६ ॥
छिन्नताण्डवसन्तुष्टश्छिन्नयोगविशारदः ।
जाबालिपूज्यो जन्माद्यो जनितानामजापकः ॥ ९७ ॥ [जन्मनाशकः]
जमलार्जुननिर्नाशी जमलार्जुनताडनः ।
जन्मभूमिर्जराहीनो जामातृवरदो जपः ॥ ९८ ॥
जपापुष्पप्रियकरो जपादाडिमरागधृत् ।
जैनमार्गरतो जैनो जितक्रोधो जितामयः ॥ ९९ ॥
जूं जूं जटाभस्मधरो जटाधारो जटाधरः ।
जराधरो जरत्कारो जामित्रवरदो जर्वः ॥ १०० ॥
जीवनो जीवनाधारो ज्योतिःशास्त्रविशारदः ।
ज्योतिर्ज्योत्स्नामयो जेता जयो जन्मकृतादरः ॥ १०१ ॥
ज्योतिर्लिङ्गो ज्योतिरूपो जीमूतवरदायकः ।
जितो जेता जन्मपारो ज्योत्स्नाजालप्रवर्तकः ॥ १०२ ॥
जन्माध्वनाशनो जीवो जीवातुर्जीवनौषधः ।
जराहरो जाड्यहरो जन्माजन्मविवर्जितः ॥ १०३ ॥
जनको जननीनाथो जीमूतो जूं मनुर्जयः ।
जपमाली जगन्नाथो जगत्स्थावरजङ्गमः ॥ १०४ ॥
जठरो जारविज्जारो जठराग्निप्रवर्तकः ।
जामित्रो जैमिनिप्रीतो जितशास्त्रप्रवर्तकः ॥ १०५ ॥
जीर्णो जीर्णतरो जातिर्जातिनाथो जगन्मयः ।
जगत्प्रीतो जगत्त्राता जगज्जीवनकौतुकः ॥ १०६ ॥
झरिर्झर्झुरिको झञ्झावायुर्झिञ्झिङ्कृज्झिङ्कृतिः ।
ज्ञानेश्वरो ज्ञानगम्यो ज्ञानमार्गपरायणः ॥ १०७ ॥
ज्ञानकाण्डी ज्ञेयकाण्डी ज्ञेयो ज्ञेयविवर्जितः ।
टङ्कास्त्रधारी टित्कारष्टीकाटिप्पणकारकः ॥ १०८ ॥
टां टीं टूं जपसन्तुष्टष्टिट्टिभष्टिट्टिभासनः ।
टिट्टिभानन्त्यसहितष्टकाराक्षरभूषितः ॥ १०९ ॥
टकारकारी टासिद्धष्टमूर्तिष्टाकृतिष्टदः ।
ठाकुरष्ठकुरष्ठण्ठष्ठठबीजार्थवाचकः ॥ ११० ॥
ठां ठीं ठूं जपयोगाढ्यो डामरो डाकिनीमयः ।
डाकिनीनायको डां डीं डूं डैं शब्दपरायणः ॥ १११ ॥
डकारात्मा डामयश्च डामरीशक्तिरञ्जितः ।
डाकरो डाङ्करो डिं डिं डिं डिं वादनतत्परः ॥ ११२ ॥
डकाराढ्यो डाङ्कहीनो डमरूवाद्यतत्परः ।
डामरेशो डाङ्कनाथो ढक्कावादनतत्परः ॥ ११३ ॥
ढाङ्कृतिर्ढपतिर्ढां ढीं ढूं ढैं ढौं शब्दतत्परः ।
ढीढीभूषणभूषाढ्यो ढीं ढीं पालो ढपारजः ॥ ११४ ॥
तरस्थस्तरमध्यस्थः तरदन्तरमध्यगः ।
तारकस्तारतम्यश्च तरनाथस्तनास्तनः ॥ ११५ ॥
तरुणस्ताम्रचूडश्च तमिस्रानायकस्तमी ।
तोत्रदस्तालदस्तीव्रस्तीव्रवेगस्तशब्दधृत् ॥ ११६ ॥
तालीमतस्तालधरस्तपःसारस्त्रपाकरः ।
तन्त्रमार्गरतस्तन्त्री तान्त्रिकस्तान्त्रिकोत्तमः ॥ ११७ ॥
तुषाराचलमध्यस्थस्तुषारवनभूषणः ।
तुर्यस्तुम्बीफलप्राणस्तुलजापुरनायकः ॥ ११८ ॥
तीव्रयज्ञकरस्तीव्रमूढयज्ञसमाजगः ।
त्रिवर्गयज्ञदस्तारस्त्र्यम्बकस्त्रिपुरान्तकः ॥ ११९ ॥
त्रिपुरान्तस्त्रिसंहारकारकस्तैत्तिरीयकः ।
त्रिलोकमुद्रिकाभूषस्त्रिपञ्चन्याससम्युतः ॥ १२० ॥
त्रिषुग्रन्धिस्त्रिमात्रश्च त्रिशिरस्त्रिमुखस्त्रिकः ।
त्रयीमयश्च त्रिगुणः त्रिपादश्च त्रिहस्तकः ॥ १२१ ॥
तन्त्रिरूपस्त्रिकोणेशस्त्रिकालज्ञस्त्रयीमयः ।
त्रिसन्ध्यश्च त्रितारश्च ताम्रपर्णीजलप्रियः ॥ १२२ ॥
तोमरस्तुमुलस्तूलस्तूलापुरुषरूपधृत् ।
तरी तन्त्री तन्त्रितन्त्री तृतीयस्तरुशेखरः ॥ १२३ ॥
तरुणेन्दुशिरास्तापस्त्रिपथातोयशेखरः ।
त्रिबीजेशस्त्रिस्वरूपस्तितीशब्दपरायणः ॥ १२४ ॥
तारनायकभूषश्च तितीवादनचञ्चलः ।
तीक्ष्णस्त्रैराशिकस्त्र्यक्षस्तारस्ताटङ्कवादनः ॥ १२५ ॥
तृतीयस्तारकस्तम्भस्तम्भमध्यकृतादरः ।
तत्त्वरूपस्तलस्तालस्तोलकस्तन्त्रभूषणः ॥ १२६ ॥
ततस्तोममयः स्तौत्य स्थूलबुद्धिस्त्रपाकरः ।
तुष्टिस्तुष्टिमयः स्तोत्रपाठः स्तोत्ररतस्तृटी ॥ १२७ ॥
त्रिशराश्च त्रिबिन्दुश्च तीव्रास्तारस्त्रयीगतिः ।
त्रिकालज्ञस्त्रिकालश्च त्रिजन्मा च त्रिमेखलः ॥ १२८ ॥
त्रिदोषघ्नस्त्रिवर्गश्च त्रैकालिकफलप्रदः ।
तत्त्वशुद्धस्तत्त्वमन्त्रस्तत्त्वमन्त्रफलप्रदः ॥ १२९ ॥
त्रिपुरारिस्त्रिमधुरस्त्रिशक्तीशस्त्रितत्त्वधृत् ।
तीर्थप्रीतस्तीर्थरतस्तीर्थोदानपरायणः ॥ १३० ॥
त्रिमल्लेशस्त्रिन्त्रिणीशस्तीर्थश्राद्धफलप्रदः ।
तीर्थभूमिरतस्तीर्थी तित्तिरीफलभोजनः ॥ १३१ ॥
तित्तिरीफलभूषाढ्यस्ताम्रनेत्रविभूषितः ।
तक्षः स्तोत्रमयः स्तोत्रः स्तोत्रप्रीतः स्तुतिप्रियः ॥ १३२ ॥
स्तवराजप्रियप्राणः स्तवराजजपप्रियः ।
तेमनान्नप्रियस्तिग्मस्तिग्मरश्मिस्तिथिप्रियः ॥ १३३ ॥
तैलप्रीतस्तैलमालास्तैलभोजनतत्परः ।
तैलदीपप्रियस्तैलमर्दकानन्तशक्तिधृत् ॥ १३४ ॥
तैलपक्वान्नसन्तुष्टस्तिलचर्वणलालसः ।
तैलाभिषेकसन्तुष्टस्तिलतर्पणतत्परः ॥ १३५ ॥
तिलाहारप्रियप्राणस्तिलमोदकतोषणः ।
तिलपिष्टान्नभोजी च तिलपर्वतरूपधृत् ॥ १३६ ॥
तिलदानप्रियश्चैव तिलहोमप्रासादकः ।
तिलव्रतप्रियप्राणस्तिलमिश्रान्नभोजनः ॥ १३७ ॥
तिलदानस्तिलानन्दस्तिलभोजीतिलप्रियः ।
तिलभक्षप्रियश्चैव तिलभोगरतस्तथा ॥ १३८ ॥
थकारकूटनिलयः थैथैथैशब्दतत्परः ।
थिमीथिमीथिमीरूपः थैथैथैनाट्यनायकः ॥ १३९ ॥
उत्तरपीठिका –
स्थाणुरूपो महेशानि प्रोक्तं नामसहस्रकम् ।
गोप्याद्गोप्यं महेशानि सारात् सारतरं परम् ॥ १४० ॥
ज्ञानकैवल्यनामाख्यं नामसाहस्रकं शिवे ।
यः पठेत् प्रयतो भूत्वा भस्मभूषितविग्रहः ॥ १४१ ॥
रुद्राक्षमालाभरणो भक्तिमान् जपतत्परः ।
सहस्रनाम प्रपठेत् ज्ञानकैवल्यकाभिधम् ॥ १४२ ॥
सर्वसिद्धिमवाप्नोति साक्षात्कारं च विन्दति ।
यस्यैकवारपठनं किं तस्य नरके स्थितम् ॥ १४३ ॥
प्रातर्मध्याह्नकाले च सन्ध्यायां च विशेषतः ।
अनन्तमहिमाख्यं च ज्ञानकैवलकाभिधम् ॥ १४४ ॥
स्तौति श्रीदक्षिणामूर्तिं शास्त्रविधिं च विन्दति ।
तत्त्वमुद्रां वामकरे कृत्वा नामसहस्रकम् ॥ १४५ ॥
प्रपठेत्पञ्चसाहस्रं पुरश्चरणमुच्यते ।
चतुर्दश्यामथाष्टम्यां प्रदोषे च विशेषतः ॥ १४६ ॥
शनिप्रदोषे देवेशि तथा सोमस्य वासरे ।
नक्तभोजी हविष्याशी नामसाहस्रपाठकः ॥ १४७ ॥
सर्वसिद्धिमवाप्नोति चान्ते कैवल्यमश्नुते ।
शिवनाम्ना जातभोधो वाङ्मनः कायकर्मभिः ॥ १४८ ॥
शिवोऽहमिति वै ध्यायन् नामसाहस्रकं पठेत् ।
सर्वसिद्धिमवाप्नोति सर्वशास्त्रार्थविद्भवेत् ॥ १४९ ॥
राज्यार्थी राज्यमाप्नोति धनार्थी धनमक्षयम् ।
यशोऽर्थी कीर्तिमाप्नोति नामसाहस्रपाठकः ॥ १५० ॥
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् ।
अग्निः स्तम्भं जलस्तम्भं वायुस्तम्भं विवस्वतः ॥ १५१ ॥
गतेस्तम्भं करोत्येव नात्र कार्या विचारणा ।
अभिमन्त्र्य जलं देवि मातृकाबीजयोगतः ॥ १५२ ॥
अयुतं प्रजपेद्देवि ततो नामसहस्रकम् ।
प्रपठेत् परमेशानि सर्ववाक्सिद्धिमाप्नुयात् ॥ १५३ ॥
जलपानविधानेन यत्कार्यं जायते शृणु ।
आदौ मन्त्रशतं जप्त्वा ततो नाम सहस्रकम् ॥ १५४ ॥
पुनः शतं जपेन्मन्त्रं जलं चानेन मन्त्रयेत् ।
त्रिवारमेवं कृत्वा तु नित्यं स्याज्जलपानकः ॥ १५५ ॥
जलपानविधानेन मूकोऽपि सुकविर्भवेत् ।
विनाऽऽयासैर्विनाऽऽभ्यासैर्विना पाठादिभिः प्रिये ॥ १५६ ॥
चतुर्विधं च पाण्डित्यं तस्य हस्तगतं प्रिये ।
सर्वत्र जयमाप्नोति मन्त्रसिद्धिं च विन्दति ॥ १५७ ॥
रुद्रवारं जपेन्नित्यं एकविंशदिनं प्रिये ।
सर्वत्र जयमाप्नोति नात्र कार्या विचारणा ॥ १५८ ॥
अथवा देवदेवेशि पठेन्नामसहस्रकम् ।
यत्कृत्वा देवदेवेशि किं तद्यन्न करोति हि ॥ १५९ ॥
गोमूत्रजं चरुं कृत्वा त्रिसहस्रं मनुं जपेत् ।
तदन्ते नामसाहस्रं तावद्वारं जपेच्छिवे ॥ १६० ॥
मासमात्रप्रयोगेण राजराजसमो भवेत् ।
क्रमवृद्ध्या कुम्भकानि मन्त्राणां शतसङ्ख्यया ॥ १६१ ॥
कृत्वा यः प्रपठेद्देवि न साध्यं तस्य विद्यते ।
ब्रह्मचर्यरतो मन्त्री मधूकरपरायणः ॥ १६२ ॥
सहस्रं प्रजपेन्नित्यं ततो नाम सहस्रकम् ।
प्रपठेत् परमेशानि साक्षाच्छिवसमो भवेत् ॥ १६३ ॥
गुरुभक्ताय दातव्यं नाभक्ताय कदाचन ।
परनिन्दा परद्रोहि परवादरताय च ॥ १६४ ॥
परस्त्रीनिरतया च न देयं सर्वदा प्रिये ।
शिष्याय गुरुभक्ताय शिवाद्वैतपराय च ॥ १६५ ॥
उपासकाय देयं हि नान्यथा नश्यति धृवम् ।
गोपनीयं गोपनीयं गोपनीयं प्रयत्नतः ॥ १६६ ॥
स्वयोनिरिव गोप्तव्यं न देयं यस्य कस्य तु ।
इति सङ्क्षेपतः प्रोक्तं किमन्यच्छ्रोतुमिच्छसि ॥ १६७ ॥
इति श्रीचिदम्बरनटतन्त्रे उमामहेश्वरसंवादे श्री दक्षिणामूर्ति सहस्रनाम स्तोत्रम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.