Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
नमोऽस्तु बुद्धाय विशुद्धबोधये
विशुद्धधर्मप्रतिभासबुद्धये ।
सद्धर्मपुण्योपगतानुबुद्धये
भवाग्रशून्याय विशुद्धबुद्धये ॥ १ ॥
अहो अहो बुद्धमनन्ततेजसं
अहो अहो सागरमेरुगुल्मम् ।
अहो अहो बुद्धमनन्तगोचरम्
औदुम्बरं पुष्पमिवातिदुर्लभम् ॥ २ ॥
अहो महाकारुणिकस्तथागतः
अहो अहो शाक्यकुलस्य केतुः ।
अहो प्रणम्यः स नरेन्द्रसूर्यो
येनेदृशं भाषितसूत्रमुत्तमम् ॥ ३ ॥
अनुग्रहार्थं स हि सर्वसत्त्वान्
सद्धर्मचर्यामुपदिश्य नूनम् ।
शान्तेश्वरः शाक्यमुनिस्तथागतः
सत्त्वोत्तमः शान्तपुरं प्रविष्टः ॥ ४ ॥
गम्भीरशान्तं विरजासमाधि-
-पदं प्रविष्टे जिनबुद्धगोचरे ।
शून्याश्च कायास्त्वथ श्रावकाणां
शून्या विहारा द्विपदोत्तमानाम् ॥ ५ ॥
ते सर्वधर्मा प्रकृतिश्च शून्या
सत्त्वा हि शून्या नहि जातु विद्यते ॥ ६ ॥
नित्यं च नित्यं च जिनं स्मरामि
नित्यं च शोचामि जिनस्य दर्शनम् ।
नित्यं च नित्यं प्रणिधिं करोमि
सम्बुद्धपूज्यस्य च दर्शनार्थम् ॥ ७ ॥
स्थाप्येह नित्यं धरणीषु जानु
शोकाभितप्तो जिनदर्शनाय ।
ओदन्तकारुण्यविनायकस्त्व-
-मतीव तृष्णा सुगतस्य दर्शने ॥ ८ ॥
सतां वरो यद्विजहार नित्यं
ददाहि मे दर्शनतोयशीतलम् ।
सत्त्वाः सतृष्णास्तव रूपदर्शने
प्रह्लादयैनान् करुणाजलेन ॥ ९ ॥
कारुण्यभावं कुरु नाथ नायक
ददाहि मे दर्शनं सौम्यरूपम् ।
त्वं पाहि त्रातर्जगदेकदेशिता
शून्याश्च कायास्त्वथ श्रावकाणाम् ॥ १० ॥
आकाशतुल्या गगनस्वभावा
मायामरीच्योदकचन्द्रकायाः ।
सर्वे च सत्त्वाः सुखितस्वभावा
भवन्तु भो नायक त्वत्प्रसादात् ॥ ११ ॥
इति बोधिसत्त्वसमुच्चयानाम कुलदेवता विरचितं श्री बुद्ध स्तोत्रम् ॥
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.