Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ऋषय ऊचुः ।
नमः परमकल्याण कल्याणायात्मयोगिने ।
जनार्दनायदेवाय श्रीधराय सुवेधसे ॥ १ ॥
नमः परमकिञ्जल्क सुवर्णमुकुटाय च ।
केशवायातिसूक्ष्माय बृहन्मूर्ते नमो नमः ॥ २ ॥
नमः पङ्कजनाभाय हरये हरिवेधसे ।
नमो हिरण्यगर्भाय जगतः कारणात्मने ॥ ३ ॥
अच्युताय नमो नित्यमुन्नताय नमो नमः ।
नमो मायापटच्छन्न जगद्धात्रे महात्मने ॥ ४ ॥
संसारसागरोत्तार ज्ञानपोतप्रदायिने ।
अकुण्ठमतयेधात्रे सर्गस्थित्यन्तकारिणे ॥ ५ ॥
यथा हि वासुदेवेति प्रोक्तं पातकनाशनम् ।
तथा विलयमभ्येतु दैत्योयं मेघवाहनः ॥ ६ ॥
यथा न विष्णुभक्तेषु पापं नाप्नोति संस्थितम् ।
तथा विनाशमायातु दैत्योयं पापकर्मकृत् ॥ ७ ॥
स्मृतमात्रो यथा विष्णुः सर्वं पापं व्यपोहति ।
तथा प्रणाशमभ्येतु दैत्योयं मेघवाहनः ॥ ८ ॥
भवन्तु भद्राणि समस्तदोषाः
प्रयान्तु नाशं जगतोऽखिलस्य ।
अभ्येत्यभक्त्या परमेश्वरस्य
स्मृते जगद्धातरिवासुदेवे ॥ ९ ॥
यस्तं पूजयते भक्त्या एकादश्यान्नरोत्तमः ।
सोऽश्वमेधफलं प्राप्य मोदते दिवि देववत् ॥ १० ॥
गोलक्षं ब्राह्मणे दत्त्वा यत्फलं प्राप्नुयान्नरः ।
तदादिदेवं गोविन्दं दृष्ट्वा भक्त्या फलं लभेत् ॥ ११ ॥
कलौ कृतयुगस्तेषां क्लेशास्तेषां सुखाधिकाः ।
आदिनारायणो देवो येषां हृदयसंस्थितः ॥ १२ ॥
एकादश्यां रविदिने स्नात्वा सन्निहितो जले ।
आदिनारायणं पूज्य मुच्यते भवबन्धनात् ॥ १३ ॥
इति स्कन्दपुराणे श्री आदिनारायण स्तवः ॥
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.