Shukra Graha Vedic Mantra – शुक्र ग्रहस्य वैदिक मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम शुक्र ग्रहपीडापरिहारार्थं शुक्र ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं शुक्र ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– शुक्र मन्त्रः –

अन्नात्परिस्रुतेत्यस्य मन्त्रस्य शङ्ख ऋषिः भुरिगतिजगती छन्दः शुक्रो देवता रसं ब्रह्मणा इति बीजं शुक्र प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं शङ्ख ऋषये नमः शिरसि ।
ओं भुरिगतिजगती छन्दसे नमः मुखे ।
ओं शुक्र देवतायै नमः हृदये ।
ओं रसं ब्रह्मणा इति बीजाय नमः गुह्ये ।
ओं शुक्र प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं अन्नात् परिस्रुतो इति अङ्गुष्ठाभ्यां नमः ।
ओं रसं ब्रह्मणा व्यपिबत् इति तर्जनीभ्यां नमः ।
ओं क्षत्रं पयः इति मध्यमाभ्यां नमः ।
ओं सोमं प्रजापतिरिति अनामिकाभ्यां नमः ।
ओं ऋतेन सत्यमिन्द्रियं विपानग्ं शुक्रमन्ध सः इति कनिष्ठिकाभ्यां नमः ।
ओं इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु इति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं अन्नात् परिस्रुतो इति हृदयाय नमः ।
ओं रसं ब्रह्मणा व्यपिबत् इति शिरसे स्वाहा ।
ओं क्षत्रं पयः इति शिखायै वषट् ।
ओं सोमं प्रजापतिरिति कवचाय हुम् ।
ओं ऋतेन सत्यमिन्द्रियं विपानग्ं शुक्रमन्ध सः इति नेत्रत्रयाय वौषट् ।
ओं इन्द्रस्येन्द्रियमिदं पयोऽमृतं मधु इति अस्त्राय फट् ।

ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
चतुर्भुजो दैत्यगुरुः प्रशान्तः ।
तथाक्षसूत्रं च कमण्डलुं च
दण्डं च बिभ्रद्वरदोऽस्तु मह्यम् ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।१९-७५)
अन्ना॑त् परि॒स्रुतो॒ रसं॒ ब्रह्म॑णा॒ व्यपिबत् क्ष॒त्रं पय॒: सोमं॑ प्र॒जाप॑तिः ।
ऋ॒तेन॑ स॒त्यमि॑न्द्रि॒यं वि॒पानग्ं शु॒क्रमन्ध॑स॒ऽइन्द्र॑स्येन्द्रि॒यमि॒दं पयो॒ऽमृतं॒ मधु॑ ॥

ओं शुक्राय नमः ॥

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत शुक्र ग्रहस्य मन्त्र जपेन शुक्र सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed