Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।
पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ मम शुक्र ग्रहपीडापरिहारार्थं शुक्र प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं शुक्र ग्रहस्य बीजमन्त्र जपं करिष्ये ॥
– शुक्रः –
ध्यानम् –
श्वेताम्बरः श्वेतवपुः किरीटी
चतुर्भुजो दैत्यगुरुः प्रशान्तः ।
तथासि दण्डं च कमण्डलुं च
तथाक्षसूत्राद्वरदोऽस्तु मह्यम् ॥
हिमकुन्दमृणालाभं दैत्यानां परमं गुरुम् ।
सर्वशास्त्रप्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
लमित्यादि पञ्चपूजा –
लं पृथिव्यात्मने गन्धं परिकल्पयामि ।
हं आकाशात्मने पुष्पं परिकल्पयामि ।
यं वाय्वात्मने धूपं परिकल्पयामि ।
रं अग्न्यात्मने दीपं परिकल्पयामि ।
वं अमृतात्मने नैवेद्यं परिकल्पयामि ।
सं सर्वात्मने सर्वोपचारान् परिकल्पयामि ।
बीजमन्त्रः –
ओं द्रां द्रीं द्रौं सः शुक्राय नमः । (१६०००)
समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥
अनेन मया कृत शुक्र ग्रहस्य मन्त्रजपेन शुक्र सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।
ओं शान्तिः शान्तिः शान्तिः ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.