Mantratmaka Sri Maruthi Stotram – मन्त्रात्मक श्री मारुति स्तोत्रम्


ओं नमो वायुपुत्राय भीमरूपाय धीमते ।
नमस्ते रामदूताय कामरूपाय श्रीमते ॥ १ ॥

मोहशोकविनाशाय सीताशोकविनाशिने ।
भग्नाशोकवनायास्तु दग्धलङ्काय वाग्मिने ॥ २ ॥

गति निर्जितवाताय लक्ष्मणप्राणदाय च ।
वनौकसां वरिष्ठाय वशिने वनवासिने ॥ ३ ॥

तत्त्वज्ञान सुधासिन्धुनिमग्नाय महीयसे ।
आञ्जनेयाय शूराय सुग्रीवसचिवाय ते ॥ ४ ॥

जन्ममृत्युभयघ्नाय सर्वक्लेशहराय च ।
नेदिष्ठाय प्रेतभूतपिशाचभयहारिणे ॥ ५ ॥

यातना नाशनायास्तु नमो मर्कटरूपिणे ।
यक्ष राक्षस शार्दूल सर्पवृश्चिक भीहृते ॥ ६ ॥

महाबलाय वीराय चिरञ्जीविन उद्धते ।
हारिणे वज्रदेहाय चोल्लङ्घित महाब्धये ॥ ७ ॥

बलिनामग्रगण्याय नमो नः पाहि मारुते ।
लाभदोऽसि त्वमेवाशु हनुमान् राक्षसान्तकः ॥ ८ ॥

यशो जयं च मे देहि शत्रून् नाशय नाशय ।
स्वाश्रितानामभयदं य एवं स्तौति मारुतिम् ।
हानिः कुतो भवेत्तस्य सर्वत्र विजयी भवेत् ॥ ९ ॥

इति श्रीवासुदेवानन्दसरस्वती कृतं मन्त्रात्मकं श्रीमारुति स्तोत्रम् ।


इतर श्री हनुमान् स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed