Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
(तै.आ.३-१३-४०)
अ॒द्भ्यः सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒: सम॑वर्त॒ताधि॑ । तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ । वेदा॒हमे॒तं पुरु॑षं म॒हान्त᳚म् । आ॒दि॒त्यव॑र्णं॒ तम॑स॒: पर॑स्तात् । तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒तेऽय॑नाय । प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ ८ ॥
// अद्भ्यः, सम्भूतः, पृथिव्यै, रसात्, च, विश्वकर्मणः, समवर्तत, अधि, तस्य, त्वष्टा, विदधत्, रूपं, एति, तत्, पुरुषस्य, विश्वं, आजानं, अग्रे, वेद, अहं, एतं, पुरुषं, महान्तं, आदित्य-वर्णं, तमसः, परः, तात्, तं, एवं, विद्वान्, अमृतः, इह, भवति, न, अन्यः, पन्थाः, विद्यते, अयनाय, प्रजापतिः, चरति, गर्भे, अन्तः, अजायमानः, बहुधा, विजायते //
तस्य॒ धीरा॒: परि॑जानन्ति॒ योनि᳚म् । मरी॑चीनां प॒दमि॑च्छन्ति वे॒धस॑: । यो दे॒वेभ्य॒ आत॑पति । यो दे॒वानां᳚ पु॒रोहि॑तः । पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुचं॑ ब्रा॒ह्मं ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन् । यस्त्वै॒वं ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे᳚ ॥ ९ ॥
// तस्य, धीराः, परि-जानन्ति, योनिं, मरीचीनां, पदं, इच्छन्ति, वेधसः, यः, देवेभ्यः, आतपति, यः, देवानां, पुरोहितः, पूर्वः, यः, देवेभ्यः, जातः, नमः, रुचाय, ब्राह्मये, रुचं, ब्राह्मं, जनयन्तः, देवाः, अग्रे, तत्, अब्रुवन्, यः, तु, एवं, ब्राह्मणः, विद्यात्, तस्य, देवाः, असन्, वशे //
ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्टं म॑निषाण । अ॒मुं म॑निषाण । सर्वं॑ मनिषाण ॥ १० ॥
// ह्रीः, च, ते, लक्ष्मीः, च, पत्न्यौ, अहः-रात्रे, पार्श्वे, नक्षत्राणि, रूपं, अश्विनौ, व्यात्तं, इष्टं, मनिषाण, अमुं, मनिषाण, सर्वं, मनिषाण //
ओं नमो भगवते॑ रुद्रा॒य । उत्तरनारायणग्ं शिखायै वषट् ॥
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.