Ashwattha Stotram – 2 – अश्वत्थ स्तोत्रम् – २


मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय वृक्षराजाय ते नमः ॥ १ ॥

ज्वरपीडासमुद्भूत देहपीडानिवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ २ ॥

अपस्मारगदोपेत देह पीडानिवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ३ ॥

क्षयव्याधिसमाक्रान्त देहचिन्तानिपीडितः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ४ ॥

कुष्णुपीडानरिक्षीण शरीरव्याधिबाधितः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ५ ॥

जलोदरगदाक्रान्त नितान्तक्लिन्नमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ६ ॥

पाण्डुरोगसमाक्रान्त शुष्कीभूतशरीरिणः ।
आरोग्यं मे प्रयच्छाशु वृक्षराजाय ते नमः ॥ ७ ॥

मारीमशूचीप्रभृति सर्वरोगनिवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ८ ॥

रणव्याधिमहापीडा नितान्तक्लिन्नमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ ९ ॥

वातोष्णवैत्यप्रभृति व्याधिबाधानिपीडितः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १० ॥

सन्तानहीनचिन्तया नितान्तक्लिन्नमानसः ।
सन्तानप्राप्तये तुभ्यं वृक्षराजाय ते नमः ॥ ११ ॥

सर्वसम्पत्प्रदानाय समर्थोसितरूत्तम ।
अतस्त्वद्भक्तियुक्तोहं वृक्षराजाय ते नमः ॥ १२ ॥

सर्वयज्ञक्रियारम्भसाधनोसि महातरो ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १३ ॥

ब्रह्मविष्णुस्वरूपोऽसि सर्वदेवमयोह्यसि ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १४ ॥

ऋग्यजुः सामरूपोऽसि सर्वशास्त्रमयोह्यसि ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १५ ॥

पिशाचादिमहाभूत सदापीडितमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १६ ॥

ब्रह्मराक्षसपीडादि दूरीकरणशक्तिमान् ।
अश्वत्थ इति विख्यात अतस्तां प्रार्थयाम्यहम् ॥ १७ ॥

सर्वतीर्थमयो वृक्ष अश्वत्थ इति च स्मृतः ।
तस्मात् त्वद्भक्तियुक्तोऽहं वृक्षराजाय ते नमः ॥ १८ ॥

परप्रयोगजातायाः पीडायाक्लिन्नमानसः ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ १९ ॥

सर्वामयनिवृत्त्यैत्त्वं समर्थोसि तरूत्तम ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ २० ॥

दुःस्वप्न दुर्निमित्ताफ़्दि दोषसङ्घ निवृत्तये ।
प्रदक्षिणं करोमि त्वां वृक्षराजाय ते नमः ॥ २१ ॥

भवार्णवनिमग्नस्य समुद्धरण शक्तिमान् ।
अश्वत्थ इति वक्तव्य वृक्षराजाय ते नमः ॥ २२ ॥

पापानलप्रदग्धस्य शात्यैनिपुलवारिदः ।
अश्वत्थ एव सा धीयान् वृक्षराजाय तेनमः ॥ २३ ॥

गवाकोटिप्रदानेन यत्फलं लभते जनः ।
त्वत्सेवया तदाप्नोति वृक्षराजाय ते नमः ॥ २४ ॥

सर्वव्रतविधानाच्च सर्वदेवाभिपूजनात् ।
यत् प्राप्तं तदवाप्नोति वृक्षराजाय ते नमः ॥ २५ ॥

सुमङ्गलीत्वं सौभाग्य सौशील्यादि गुणाप्तये ।
तत्सेवैव समर्थो हि वृक्षराजाय ते नमः ॥ २६ ॥

हृदये मे यद्यदिष्टं तत्सर्वं सफलं कुरु ।
त्वामेव शरणं प्राप्तो वृक्षराजाय ते नमः ॥ २७ ॥

एतानेव चतुर्वारं पठित्वा च प्रदक्षिणम् ।
कुर्याच्चेद्भक्तिसहितो ह्यष्टोत्तरशतं भवेत् ॥ २८ ॥

इति अश्वत्थ स्तोत्रम् ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed