Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं नमः प्रणवार्थाय शुद्धज्ञानैकमूर्तये ।
निर्मलाय प्रशान्ताय दक्षिणामूर्तये नमः ॥ १ ॥
ईश्वरो गुरुरात्मेति मूर्तिभेदविभागिने ।
व्योमवद्व्याप्तदेहाय दक्षिणामूर्तये नमः ॥ २ ॥
श्रीकैलासनिवासाय बालशीतांशुमौलये ।
मुनिभिः सेव्यमानाय दक्षिणामूर्तये नमः ॥ ३ ॥
सर्वज्ञाय त्रिणेत्राय शङ्कराय कपर्दिने ।
गङ्गाधराय शर्वाय दक्षिणामूर्तये नमः ॥ ४ ॥
प्रविलम्बित रुक्माभ जटामण्डलधारिणे ।
मुक्तायज्ञोपवीताय दक्षिणामूर्तये नमः ॥ ५ ॥
विन्यस्तसव्यगुल्फाय दक्षिणोरुपदेशके ।
नासाग्रन्यस्तनेत्राय दक्षिणामूर्तये नमः ॥ ६ ॥
स्निग्धकल्माषकर्षाय कारुण्यामृतसिन्धवे ।
स्मृतिमात्राघनाशाय दक्षिणामूर्तये नमः ॥ ७ ॥
कलशं चाक्षमालां च ज्ञानमुद्रां च पुस्तकम् ।
करैश्चतुर्भिर्दधते दक्षिणामूर्तये नमः ॥ ८ ॥
चिद्घनाय महेशाय वटमूलनिवासिने ।
सच्चिदानन्दरूपाय दक्षिणामूर्तये नमः ॥ ९ ॥
गुरवे सर्वलोकानां भिषजे भवरोगिणाम् ।
निधये सर्वविद्यानां श्रीदक्षिणामूर्तये नमः ॥ १० ॥
इति श्रीशङ्कराचार्य विरचितं श्री दक्षिणामूर्ति स्तोत्रम् ॥
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.