Rahu Graha Vedic Mantra – राहु ग्रहस्य वैदिक मन्त्र जपम्


आचम्य । प्राणानायम्य । देशकालौ सङ्कीर्त्य । गणपति स्मरणं कृत्वा ।

पुनः सङ्कल्पं –
अद्य पूर्वोक्त एवं गुणविशेषण विशिष्ठायां शुभतिथौ मम राहु ग्रहपीडापरिहारार्थं राहु ग्रहदेवता प्रसाद द्वारा आयुरारोग्य ऐश्वर्यादि उत्तमफलावाप्त्यर्थं मम सङ्कल्पित मनोवाञ्छाफलसिद्ध्यर्थं यथा सङ्ख्याकं राहु ग्रहस्य न्यासपूर्वक वेदोक्त मन्त्रजपं करिष्ये ॥

– राहु मन्त्रः –

कयानश्चित्रेत्यस्य मन्त्रस्य वामदेव ऋषिः गायत्री छन्दः राहुर्देवता कयान इति बीजं शचिरिति शक्तिः राहु प्रीत्यर्थे जपे विनियोगः ।

न्यासः –
ओं वामदेव ऋषये नमः शिरसि ।
ओं गायत्री छन्दसे नमः मुखे ।
ओं राहु देवतायै नमः हृदये ।
ओं कयान इति बीजाय नमः गुह्ये ।
ओं शचिरिति शक्तये नमः पादयोः ।
ओं राहु प्रीत्यर्थे जपे विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं कयानः इति अङ्गुष्ठाभ्यां नमः ।
ओं चित्र इति तर्जनीभ्यां नमः ।
ओं आभुव इति मध्यमाभ्यां नमः ।
ओं दूतीसदावृधः इति अनामिकाभ्यां नमः ।
ओं सखाकया इति कनिष्ठिकाभ्यां नमः ।
ओं शचिष्ठयावृता इति करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं कयानः इति हृदयाय नमः ।
ओं चित्र इति शिरसे स्वाहा ।
ओं आभुव इति शिखायै वषट् ।
ओं दूतीसदावृधः इति कवचाय हुम् ।
ओं सखाकया इति नेत्रत्रयाय वौषट् ।
ओं शचिष्ठयावृता इति अस्त्राय फट् ।

ध्यानम् –
नीलाम्बरो नीलवपुः किरीटी
करालवक्त्रः करवालशूली ।
चतुर्भुजश्चर्मधरश्च राहुः
सिंहाधिरूढो वरदोऽस्तु मह्यम् ॥

लमित्यादि पञ्चपूजां कुर्यात् ॥

(य।वे।३६-४)
ओं कया॑ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑ध॒: सखा॑ ।
कया॒ शचि॑ष्ठया वृ॒ता ॥

ओं राहवे नमः ॥

समर्पणम् –
गुह्याति गुह्य गोप्ता त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिर ॥

अनेन मया कृत राहु ग्रहस्य मन्त्र जपेन राहु सुप्रीतो सुप्रसन्नो वरदो भवन्तु ।

ओं शान्तिः शान्तिः शान्तिः ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed