Sri Krishna Sharana Ashtakam 3 – श्री कृष्ण शरणाष्टकम् – ३


द्विदलीकृतदृक्स्वास्यः पन्नगीकृतपन्नगः ।
कृशीकृतकृशानुश्च श्रीकृष्णः शरणं मम ॥ १ ॥

फलीकृतफलार्थी च कुत्सितीकृतकौरवः ।
निर्वातीकृतवातारिः श्रीकृष्णः शरणं मम ॥ २ ॥

कृतार्थीकृतकुन्तीजः प्रपूतीकृतपूतनः ।
कलङ्कीकृतकंसादिः श्रीकृष्णः शरणं मम ॥ ३ ॥

सुखीकृतसुदामा च शङ्करीकृतशङ्करः ।
सितीकृतसरिन्नाथः श्रीकृष्णः शरणं मम ॥ ४ ॥

छलीकृतबलिद्यौर्यो निधनीकृतधेनुकः ।
कन्दर्पीकृतकुब्जादिः श्रीकृष्ण शरणं मम ॥ ५ ॥

महेन्द्रीकृतमाहेयः शिथिलीकृतमैथिलः ।
आनन्दीकृतनन्दाद्यः श्रीकृष्णः शरणं मम ॥ ६ ॥

वराकीकृतराकेशो विपक्षीकृतराक्षसः ।
सन्तोषीकृतसद्भक्तः श्रीकृष्णः शरणं मम ॥ ७ ॥

जरीकृतजरासन्धः कमलीकृतकार्मुकः ।
प्रभ्रष्टीकृतभीष्मादिः श्रीकृष्णः शरणं मम ॥ ८ ॥

श्रीकृष्णः शरणं ममाष्टकमिदं प्रोत्थाय यः सम्पठेत्
स श्रीगोकुलनायकस्य पदवीं सम्याति भूमीतले ।
पश्यत्येव निरन्तरं तरणिजातीरस्थकेलिं प्रभोः
सम्प्राप्नोति तदीयतां प्रतिदिनं गोपीशतैरावृताम् ॥ ९ ॥

इति श्रीरघुनाथप्रभु कृतं श्री कृष्ण शरणाष्टकम् ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed