Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
– १. क्षीरम् –
आ प्या॑यस्व॒ समे॑तु ते वि॒श्वत॑: सोम॒ वृष्णि॑यम् ।
भवा॒ वाज॑स्य सङ्ग॒थे ॥
श्री _____ नमः क्षीरेण स्नपयामि ।
// (तै.सं.३-२-५-१८) आ, प्यायस्व, सं, एतु, ते, विश्वतः, सोम, वृष्णियं, भव, वाजस्य, सं-गथे //
– २. दधि –
द॒धि॒क्राव्ण्णो॑ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिन॑: ।
सु॒र॒भि नो॒ मुखा॑ कर॒त्प्रण॒ आयूग्ं॑षि तारिषत् ॥
श्री _____ नमः । दध्ना स्नपयामि ।
// (तै.सं. ७-४-१९-५०) दधि, क्राव्-ण्णः, अकारिषं, जिष्णोः, अश्वस्य, वाजिनः, सुरभि, नः, मुखा, करत्, प्र-नः, आयूंषि, तारिषत् //
– ३. आज्यम् –
शु॒क्रम॑सि॒ ज्योति॑रसि॒ तेजो॑सि दे॒वोव॑: सवि॒तोत्पु॑ना॒त्वच्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒: सूर्य॑स्य र॒श्मिभि॑: ॥
श्री _____ नमः । आज्येन स्नपयामि ।
// (तै.सं. १-१-१०-१८), शुक्रं, असि, ज्योतिः, असि, तेजः, असि, देवः, वः, सविता, उत्, पुनातु, अच्छिद्रेण, पवित्रेण, वसोः, सूर्यस्य, रश्मि-भिः //
– ४. मधु –
मधु॒ वाता॑ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः ।
माध्वी᳚र्नः स॒न्त्वोष॑धीः ॥
मधु॒ नक्त॑मु॒तोष॑सि॒ मधु॑म॒त्पार्थि॑व॒ग्ं॒ रज॑: ।
मधु॒ द्यौर॑स्तु नः पि॒ता ॥
मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माग्ं अस्तु॒ सूर्य॑: ।
माध्वी॒र्गावो॑ भवन्तु नः ॥
श्री _____ नमः । मधुना स्नपयामि ।
// (तै.सं. ४-२-९-३८) मधु, वाताः, ऋत-यते, मधु, क्षरन्ति, सिन्धवः, माध्वीः, नः, सन्तु, ओषधीः, मधु, नक्तं, उत, उषसि, मधु-मत्, पार्थिवं, रजः, मधु, द्यौः, अस्तु, नः, पिता, मधु-मान्, नः, वनस्पतिः, मधु-मान्, अस्तु, सूर्यः, माध्वीः, गावः, भवन्तु, नः //
– ५. शर्कर –
स्वा॒दुः प॑वस्व दि॒व्याय॒ जन्म॑ने ।
स्वा॒दुरिन्द्रा॑य सु॒हवी॑तु॒ नाम्ने᳚ ।
स्वा॒दुर्मि॒त्राय॒ वरु॑णाय वा॒यवे॒ ।
बृह॒स्पत॑ये॒ मधु॑मा॒ग्ं अदा᳚भ्यः ॥
श्री _____ नमः । शर्करया स्नपयामि ।
// (ऋ.वे.९-८५-६) स्वादुः, पवस्व, दिव्याय, जन्मने, स्वादुः, इन्द्राय, सुहवीतु नाम्ने, स्वादुः, मित्राय, वरुणाय, वायवे, बृहस्पतये, मधु-मान्, अदाभ्यः //
श्री _____ नमः । पञ्चामृत स्नानं समर्पयामि ।
– फलोदकम् –
याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पायाश्च॑ पु॒ष्पिणी᳚: ।
बृह॒स्पति॑ प्रसूता॒स्ता नो॑ मुञ्च॒न्त्वग्ंह॑सः ॥
श्री _____ नमः । फलोदकेन स्नपयामि ।
// (तै.सं.४-२-६-२७) याः, फलिनीः, याः, अफलाः, अपुष्पाः, याः, च, पुष्पिणीः, बृहस्पति-प्रसूताः, ताः, नः, मुञ्चन्तु, अं-हसः //
– शुद्धोदक स्नानम् –
आपो॒ हिष्ठा म॑यो॒ भुव॒स्ता न॑ ऊ॒र्जे द॑धातन ।
म॒हे रणा॑य॒ चक्ष॑से ॥
यो व॑: शि॒वत॑मो रस॒स्तस्य॑ भाजयते॒ह न॑: ।
उ॒श॒तीरि॑व मा॒त॑रः ॥
तस्मा॒ अरं॑ गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ ।
आपो॑ ज॒नय॑था च नः ॥
श्री _____ नमः । शुद्धोदकेन स्नपयामि ।
// (तै.सं. ७-४-१९-५०) आपः, हि, स्थ, मयः-भुवः, ताः, नः, ऊर्जे, दधातन, महे, रणाय, चक्षसे, यः, वः, शिव-तमः, रसः, तस्य, भाजयत, इह, नः, उशतीः, इव, मातरः, तस्मै, अरं, गमाम, वः, यस्य, क्षयाय, जिन्वथ, आपः, जनयथ, च, नः //
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.