Sri Durga Ashtakshara Kavacham – श्री दुर्गाष्टाक्षर कवचं


श्री भैरव उवाच ।
अधुना देवि वक्ष्येऽहं कवचं मन्त्रगर्भकम् ।
दुर्गायाः सारसर्वस्वं कवचेश्वरसञ्ज्ञकम् ॥ १ ॥

परमार्थप्रदं नित्यं महापातकनाशनम् ।
योगिप्रियं योगिगम्यं देवानामपि दुर्लभम् ॥ २ ॥

विना दानेन मन्त्रस्य सिद्धिर्देवि कलौ भवेत् ।
धारणादस्य देवेशि शिवस्त्रैलोक्यनायकः ॥ ३ ॥

भैरवी भैरवेशानी विष्णुर्नारायणो बली ।
ब्रह्मा पार्वति लोकेशो विघ्नध्वंसी गजाननः ॥ ४ ॥

सेनानीश्च महासेनो जिष्णुर्लेखर्षभः प्रिये ।
सूर्यस्तमोऽपहो लोके चन्द्रोऽमृतविधिस्तथा ॥ ५ ॥

बहुनोक्तेन किं देवि दुर्गाकवचधारणात् ।
मर्त्योऽप्यमरतां याति साधको मन्त्रसाधकः ॥ ६ ॥

कवचस्यास्य देवेशि ऋषिः प्रोक्तो महेश्वरः ।
छन्दोऽनुष्टुप् प्रिये दुर्गा देवताऽष्टाक्षरा स्मृता ।
चक्रिबीजं च बीजं स्यान्मायाशक्तिरितीरिता ॥ ७ ॥

ओं मे पातु शिरो दुर्गा ह्रीं मे पातु ललाटकम् ।
दुं नेत्रेऽष्टाक्षरा पातु चक्री पातु श्रुती मम ॥ ८ ॥

मं ठं गण्डौ च मे पातु देवेशी रक्तकुण्डला ।
वायुर्नासां सदा पातु रक्तबीजनिषूदिनी ॥ ९ ॥

लवणं पातु मे चोष्ठौ चामुण्डा चण्डघातिनी ।
भेकी बीजं सदा पातु दन्तान्मे रक्तदन्तिका ॥ १० ॥

ओं ह्रीं श्रीं पातु मे कण्ठं नीलकण्ठाङ्कवासिनी ।
ओं ऐं क्लीं पातु मे स्कन्धौ स्कन्दमाता महेश्वरी ॥ ११ ॥

ओं सौः क्लीं मे पातु बाहू देवेशी बगलामुखी ।
ऐं श्रीं ह्रीं पातु मे हस्तौ शिवाशतनिनादिनी ॥ १२ ॥

सौः ऐं ह्रीं पातु मे वक्षो देवता विन्ध्यवासिनी ।
ओं ह्रीं श्रीं क्लीं पातु कुक्षिं मम मातङ्गिनी परा ॥ १३ ॥

ओं ह्रीं ऐं पातु मे पार्श्वे हिमाचलनिवासिनी ।
ओं स्त्रीं ह्रूं ऐं पातु पृष्ठं मम दुर्गतिनाशिनी ॥ १४ ॥

ओं क्रीं ह्रुं पातु मे नाभिं देवी नारायणी सदा ।
ओं ऐं क्लीं सौः सदा पातु कटिं कात्यायनी मम ॥ १५ ॥

ओं ह्रीं श्रीं पातु शिश्नं मे देवी श्रीबगलामुखी ।
ऐं सौः क्लीं सौः पातु गुह्यं गुह्यकेश्वरपूजिता ॥ १६ ॥

ओं ह्रीं ऐं श्रीं ह सौः पायादूरू मम मनोन्मनी ।
ओं जूं सः सौः जानु पातु जगदीश्वरपूजिता ॥ १७ ॥

ओं ऐं क्लीं पातु मे जङ्घे मेरुपर्वतवासिनी ।
ओं ह्रीं श्रीं गीं सदा पातु गुल्फौ मम गणेश्वरी ॥ १८ ॥

ओं ह्रीं दुं पातु मे पादौ पार्वती षोडशाक्षरी ।
पूर्वे मां पातु ब्रह्माणी वह्नौ पातु च वैष्णवी ॥ १९ ॥

दक्षिणे चण्डिका पातु नैरृत्ये नारसिंहिका ।
पश्चिमे पातु वाराही वायव्ये मापराजिता ॥ २० ॥

उत्तरे पातु कौमारी चैशान्यां शाम्भवी तथा ।
ऊर्ध्वं दुर्गा सदा पातु पात्वधस्ताच्छिवा सदा ॥ २१ ॥

प्रभाते त्रिपुरा पातु निशीथे छिन्नमस्तका ।
निशान्ते भैरवी पातु सर्वदा भद्रकालिका ॥ २२ ॥

अग्नेरम्बा च मां पातु जलान्मां जगदम्बिका ।
वायोर्मां पातु वाग्देवी वनाद्वनजलोचना ॥ २३ ॥

सिंहात् सिंहासना पातु सर्पात् सर्पान्तकासना ।
रोगान्मां राजमातङ्गी भूताद्भूतेशवल्लभा ॥ २४ ॥

यक्षेभ्यो यक्षिणी पातु रक्षोभ्यो राक्षसान्तका ।
भूतप्रेतपिशाचेभ्यः सुमुखी पातु मां सदा ॥ २५ ॥

सर्वत्र सर्वदा पातु ओं ह्रीं दुर्गा नवाक्षरा ।
इत्येवं कवचं गुह्यं दुर्गासर्वस्वमुत्तमम् ॥ २६ ॥

मन्त्रगर्भं महेशानि कवचेश्वरसञ्ज्ञकम् ।
वित्तदं पुण्यदं पुण्यं वर्म सिद्धिप्रदं कलौ ॥ २७ ॥

वर्म सिद्धिप्रदं गोप्यं परापररहस्यकम् ।
श्रेयस्करं मनुमयं रोगनाशकरं परम् ॥ २८ ॥

महापातककोटिघ्नं मानदं च यशस्करम् ।
अश्वमेधसहस्रस्य फलदं परमार्थदम् ॥ २९ ॥

अत्यन्तगोप्यं देवेशि कवचं मन्त्रसिद्धिदम् ।
पठनात्सिद्धिदं लोके धारणान्मुक्तिदं शिवे ॥ ३० ॥

रवौ भूर्जे लिखेद्धीमान् कृत्वा कर्माह्निकं प्रिये ।
श्रीचक्राङ्गेऽष्टगन्धेन साधको मन्त्रसिद्धये ॥ ३१ ॥

लिखित्वा धारयेद्बाहौ गुटिकां पुण्यवर्धिनीम् ।
किं किं न साधयेल्लोके गुटिका वर्मणोऽचिरात् ॥ ३२ ॥

गुटिकां धारयन्मूर्ध्नि राजानं वशमानयेत् ।
धनार्थी धारयेत्कण्ठे पुत्रार्थी कुक्षिमण्डले ॥ ३३

तामेव धारयेन्मूर्ध्नि लिखित्वा भूर्जपत्रके ।
श्वेतसूत्रेण संवेष्ट्य लाक्षया परिवेष्टयेत् ॥ ३४ ॥

सवर्णेनाथ संवेष्ट्य धारयेद्रक्तरज्जुना ।
गुटिका कामदा देवि देवनामपि दुर्लभा ॥ ३५ ॥

कवचस्यास्य गुटिकां धृत्वा मुक्तिप्रदायिनीम् ।
कवचस्यास्य देवेशि गुणितुं नैव शक्यते ॥ ३६ ॥

महिमा वै महादेवि जिह्वाकोटिशतैरपि ।
अदातव्यमिदं वर्म मन्त्रगर्भं रहस्यकम् ॥ ३७ ॥

अवक्तव्यं महापुण्यं सर्वसारस्वतप्रदम् ।
अदीक्षिताय नो दद्यात्कुचैलाय दुरात्मने ॥ ३८ ॥

अन्यशिष्याय दुष्टाय निन्दकाय कुलार्थिनाम् ।
दीक्षिताय कुलीनाय गुरुभक्तिरताय च ॥ ३९ ॥

शान्ताय कुलशान्ताय शाक्ताय कुलवासिने ।
इदं वर्म शिवे दद्यात्कुलभागी भवेन्नरः ॥ ४० ॥

इदं रहस्यं परमं दुर्गाकवचमुत्तमम् ।
गुह्यं गोप्यतमं गोप्यं गोपनीयं स्वयोनिवत् ॥ ४१ ॥

इति श्रीदेवीरहस्यतन्त्रे श्री दुर्गा कवचम् ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed