Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अग्निरुवाच ।
नमस्ते विघ्ननाशाय भक्तानां हितकारक ।
नमस्ते विघ्नकर्त्रे वै ह्यभक्तानां विनायक ॥ १ ॥
नमो मूषकवाहाय गजवक्त्राय धीमते ।
आदिमध्यान्तहीनायादिमध्यान्तस्वरूपिणे ॥ २ ॥
चतुर्भुजधरायैव चतुर्वर्गप्रदायिने ।
एकदन्ताय वै तुभ्यं हेरम्बाय नमो नमः ॥ ३ ॥
लम्बोदराय देवाय गजकर्णाय ढुण्ढये ।
योगशान्तिस्वरूपाय योगशान्तिप्रदायिने ॥ ४ ॥
योगिभ्यो योगदात्रे च योगिनां पतये नमः ।
चराचरमयायैव प्रणवाकृतिधारिणे ॥ ५ ॥
सिद्धिबुद्धिमयायैव सिद्धिबुद्धिप्रदायक ।
सिद्धिबुद्धिपते तुभ्यं नमो भक्तप्रियाय च ॥ ६ ॥
अनन्तानन देवेश प्रसीद करुणानिधे ।
दासोऽहं ते गणाध्यक्ष मां पालय विशेषतः ॥ ७ ॥
धन्योऽहं सर्वदेवेषु दृष्ट्वा पादं विनायक ।
कृतकृत्यो महायोगी ब्रह्मभूतो न संशयः ॥ ८ ॥
यदि प्रसन्नभावेन वरदोऽसि गजानन ।
तदा मां शापहीनं त्वं कुरु देवेन्द्रसत्तम ॥ ९ ॥
तव भक्तिं दृढां देहि यया मोहो विनश्यति ।
तव भक्तैः सहावासो ममास्तु गणनायक ॥ १० ॥
यदा सङ्कटसम्युक्तस्तदा स्मरणतस्तव ।
निस्सङ्कटोऽहमत्यन्तं भवामि त्वत्प्रसादतः ॥ ११ ॥
इति श्रीमन्मुद्गले महापुराणे द्वितीयखण्डे अग्नि कृत श्री गणेश स्तोत्रम् ॥
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.