Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
पूर्वाङ्गं पश्यतु ॥
हरिद्रा गणपति पूजा पश्यतु ॥
पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुण विशेषण विशिष्टायां शुभ तिथौ श्री वेङ्कटेश्वर स्वामिनः अनुग्रहप्रसाद सिद्ध्यर्थं श्री वेङ्कटेश्वर स्वामिनः प्रीत्यर्थं पुरुष सूक्त विधानेन ध्यान आवाहनादि षोडशोपचार पूजां करिष्ये ॥
प्राणप्रतिष्ठा –
ओं असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षु॒:
पुन॑: प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् ।
ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒
मनु॑मते मृ॒डया᳚ नः स्व॒स्ति ॥
अ॒मृतं॒ वै प्रा॒णा अ॒मृत॒माप॑:
प्रा॒णाने॒व य॑थास्था॒नमुप॑ह्वयते ॥
श्री वेङ्कटेश्वर स्वामिने नमः आवाहयामि स्थापयामि पूजयामि ।
स्थिरोभव वरदोभव सुप्रसन्नो भव स्थिरासनं कुरु प्रसीद प्रसीद ।
ध्यानम् –
शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाकारं गगनसदृशं मेघवर्णं शुभाङ्गम् ।
लक्ष्मीकान्तं कमलनयनं योगिहृद्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥
हैमोर्ध्वपुण्ड्र मजहन्मकुटं सुनासं
मन्दस्मितं मकरकुण्डल चारुगण्डम् ।
बिम्बाधरं बहुल दीर्घ कृपाकटाक्षं
श्रीवेङ्कटेश मुखमात्मनि सन्निधत्ताम् ॥
श्रीवेङ्कटाचलाधीशं श्रियाध्यासित वक्षसम् ।
श्रितचेतनमन्दारं श्रीनिवासमहं भजे ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ध्यायामि ॥
आवाहनम् –
स॒हस्र॑शीर्षा॒ पुरु॑षः ।
स॒ह॒स्रा॒क्षः स॒हस्र॑पात् ।
स भूमिं॑ वि॒श्वतो॑ वृ॒त्वा ।
अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
आवाहयामि सर्वेश श्रीनिवास रमापते ।
कृपया देहि सान्निध्यं शरणगतवत्सल ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आवाहयामि ॥
आसनम् –
पुरु॑ष ए॒वेदग्ं सर्वम्᳚ ।
यद्भू॒तं यच्च॒ भव्यम्᳚ ।
उ॒तामृ॑त॒त्वस्येशा॑नः ।
य॒दन्ने॑नाति॒रोह॑ति ।
देव देव जगन्नाथ प्रणतक्लेशनाशक ।
रत्नसिंहासनं दिव्यं गृहाण मधुसूदन ॥
ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः आसनं समर्पयामि ॥
पाद्यम् –
ए॒तावा॑नस्य महि॒मा ।
अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ।
पादो᳚ऽस्य॒ विश्वा॑ भू॒तानि॑ ।
त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ।
वाञ्छितं कुरु मे देव दुष्कृतं च विनाशय ।
पाद्यं गृहाण भगवान् मातुरुत्सङ्ग संस्थित ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पादयोः पाद्यं समर्पयामि ।
अर्घ्यम् –
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः ।
पादो᳚ऽस्ये॒हाऽऽभ॑वा॒त्पुन॑: ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् ।
सा॒श॒ना॒न॒श॒ने अ॒भि ।
कुरुष्व मे दयां देव संसारार्तिभयापह ।
कुसुमाक्षत सम्युक्तं गृहाणार्घ्यं नमोऽस्तु ते ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः हस्तयोः अर्घ्यं समर्पयामि ॥
आचमनीयम् –
तस्मा᳚द्वि॒राड॑जायत ।
वि॒राजो॒ अधि॒ पूरु॑षः ।
स जा॒तो अत्य॑रिच्यत ।
प॒श्चाद्भूमि॒मथो॑ पु॒रः ।
नमः सत्याय शुद्धाय नित्याय ज्ञानरूपिणे ।
गृहाणाचमनं देव सर्वलोकैकनायक ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः मुखे आचमनीयं समर्पयामि ॥
पञ्चामृतस्नानम् –
दधि क्षीराज्य मधुभिः शर्करा फलमिश्रितम् ।
पञ्चामृतस्नानमिदं गृहाण पुरुषोत्तम ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पञ्चामृत स्नानं समर्पयामि ॥
शुद्धोदकस्नानम् –
यत्पुरु॑षेण ह॒विषा᳚ ।
दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्यासी॒दाज्यम्᳚ ।
ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
गङ्गादि सर्वतीर्थेभ्यः समाहृतमिदं जलम् ।
स्नानं स्वीकुरु देवेश भक्तचित्तस्थिरासन ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः शुद्धोदक स्नानं समर्पयामि ॥
वस्त्रम् –
स॒प्तास्या॑सन्परि॒धय॑: ।
त्रिः स॒प्त स॒मिध॑: कृ॒ताः ।
दे॒वा यद्य॒ज्ञं त॑न्वा॒नाः ।
अब॑ध्न॒न्पुरु॑षं प॒शुम् ।
तप्तकाञ्चन सङ्काशं पीताम्बरमिदं हरे ।
गृहाण श्रीजगन्नाथ श्रीनिवास नमोऽस्तु ते ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः वस्त्रयुग्मं समर्पयामि ॥
यज्ञोपवीतम् –
तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्षन्॑ ।
पुरु॑षं जा॒तम॑ग्र॒तः ।
तेन॑ दे॒वा अय॑जन्त ।
सा॒ध्या ऋष॑यश्च॒ ये ।
वेङ्कटेश महादेव श्रियः कान्त जगद्विभो ।
ब्रह्मसूत्रोत्तरीये तु गृहाण करुणापर ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः यज्ञोपवीतं समर्पयामि ॥
गन्धम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
सम्भृ॑तं पृषदा॒ज्यम् ।
प॒शूग्स्ताग्श्च॑क्रे वाय॒व्यान्॑ ।
आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
चन्दनागरु कस्तूरी घनसारसमन्वितम् ।
गन्धं गृहाण गोविन्द परमामोदपूरितम् ॥
ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः दिव्य परिमल गन्धान् समर्पयामि ॥
आभरणम् –
तस्मा᳚द्य॒ज्ञात्स॑र्व॒हुत॑: ।
ऋच॒: सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् ।
यजु॒स्तस्मा॑दजायत ।
केयूर कटके चैव हस्ते चित्राङ्गुलीयकं
माणिक्योल्लासि मकुटं कुण्डले हारशोभितम् ।
नाभौ नायक रत्नं च नूपुरे हारपद्मयोः
अङ्गुली मुद्रिकाश्चैव गृह्यतां अस्मदर्पिताः ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आभरणानि समर्पयामि ॥
अक्षतान् –
गोविन्द परमानन्द हरिद्रा सहिताक्षतान् ।
विश्वेश्वर विशालाक्ष गृहाण परमेश्वर ॥
ओं श्री पद्मावती समेत श्री वेङ्कटेश्वर स्वामिने नमः अक्षतान् समर्पयामि ॥
पुष्पम् –
तस्मा॒दश्वा॑ अजायन्त ।
ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् ।
तस्मा᳚ज्जा॒ता अ॑जा॒वय॑: ।
सुगन्धीनि सुपुष्पाणि जाजीकुन्दमुखानि च ।
मालती वकुलादीनि पूजार्थं प्रतिगृह्यताम् ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः पुष्पं समर्पयामि ॥
अथाङ्ग पूजा –
ओं श्रीवेङ्कटेश्वराय नमः – पादौ पूजयामि ।
ओं श्रीवेङ्कटाचलाधीशाय नमः – गुल्फौ पूजयामि ।
ओं श्रीप्रदायकाय नमः – जङ्घे पूजयामि ।
ओं पद्मावतीपतये नमः – जानुनी पूजयामि ।
ओं ज्ञानप्रदाय नमः – ऊरुं पूजयामि ।
ओं श्रीनिवासाय नमः – कटिं पूजयामि ।
ओं महाभागाय नमः – नाभिं पूजयामि ।
ओं निर्मलाय नमः – उदरं पूजयामि ।
ओं विशालहृदयाय नमः – हृदयं पूजयामि ।
ओं परिशुद्धात्मने नमः – स्तनौ पूजयामि ।
ओं पुरुषोत्तमाय नमः – भुजौ पूजयामि ।
ओं स्वर्णहस्ताय नमः – हस्तौ पूजयामि ।
ओं वरप्रदाय नमः – कण्ठं पूजयामि ।
ओं लोकनाथाय नमः – स्कन्धौ पूजयामि ।
ओं सर्वेश्वराय नमः – मुखं पूजयामि ।
ओं रसज्ञाय नमः – नासिकां पूजयामि ।
ओं पुण्यश्रवणकीर्तनाय नमः – श्रोत्रे पूजयामि ।
ओं फुल्लाम्बुजविलोचनाय नमः – नेत्रे पूजयामि ।
ओं वर्चस्विने नमः – ललाटं पूजयामि ।
ओं सहस्रशीर्षाय नमः – शिरः पूजयामि ।
ओं रम्य विग्रहाय नमः – सर्वाण्यङ्गानि पूजयामि ।
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः दिव्यसुन्दर विग्रहं पूजयामि ॥
अथ अष्टोत्तरशतनाम पूजा –
श्री वेङ्कटेश्वर अष्टोत्तरशतनामावली पश्यतु ॥
श्री पद्मावती अष्टोत्तरशतनामावलि पश्यतु ॥
धूपम् –
यत्पुरु॑षं॒ व्य॑दधुः ।
क॒ति॒धा व्य॑कल्पयन् ।
मुखं॒ किम॑स्य॒ कौ बा॒हू ।
कावू॒रू पादा॑वुच्येते ।
दशाङ्गं गुग्गुलोपेतं गोघृतेन समन्वितम् ।
धूपं गृहाण देवेश सर्वलोकनमस्कृत ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः धूपं आघ्रापयामि ॥
दीपम् –
ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीत् ।
बा॒हू रा॑ज॒न्य॑: कृ॒तः ।
ऊ॒रू तद॑स्य॒ यद्वैश्य॑: ।
प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
त्रिलोकेश महादेव सर्वज्ञानप्रदायक ।
दीपं दास्यामि देवेश रक्ष मां भक्तवत्सल ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः दीपं दर्शयामि ॥
धूपदीपानन्तरं शुद्धाचमनीयं समर्पयामि ।
नैवेद्यम् –
च॒न्द्रमा॒ मन॑सो जा॒तः ।
चक्षो॒: सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ ।
प्रा॒णाद्वा॒युर॑जायत ।
सर्वभक्षैश्च भोज्यैश्च रसैः षड्भिः समन्वितम् ।
नैवेद्यं तु मयानीतं गृहाण पुरुषोत्तम ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः नैवेद्यं समर्पयामि ॥
ओं भूर्भुव॒स्सुव॑: । तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ यो न॑: प्रचो॒दया᳚त् ॥
सत्यं त्वा ऋतेन परिषिञ्चामि ।
(सायङ्काले – ऋतं त्वा सत्येन परिषिञ्चामि)
अमृतमस्तु । अ॒मृ॒तो॒प॒स्तर॑णमसि ।
ओं प्रा॒णाय॒ स्वाहा᳚ । ओं अ॒पा॒नाय॒ स्वाहा᳚ ।
ओं व्या॒नाय॒ स्वाहा᳚ । ओं उ॒दा॒नाय॒ स्वाहा᳚ ।
ओं स॒मा॒नाय॒ स्वाहा᳚ ।
मध्ये मध्ये पानीयं समर्पयामि ।
अ॒मृ॒ता॒पि॒धा॒नम॑सि । उत्तरापोशनं समर्पयामि ।
हस्तौ प्रक्षालयामि । पादौ प्रक्षालयामि ।
शुद्धाचमनीयं समर्पयामि ।
ताम्बूलम् –
नाभ्या॑ आसीद॒न्तरि॑क्षम् ।
शी॒र्ष्णो द्यौः सम॑वर्तत ।
प॒द्भ्यां भूमि॒र्दिश॒: श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन् ।
पूगीफलैः सकर्पूरैर्नागवल्ली दलैर्युतम् ।
मुक्ताचूर्ण समायुक्तं ताम्बूलं प्रतिगृह्यताम् ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ताम्बूलं समर्पयामि ॥
नीराजनम् –
वेदा॒हमे॒तं पुरु॑षं म॒हान्तम्᳚ ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीर॑: ।
नामा॑नि कृ॒त्वाऽभि॒वद॒न्॒ यदास्ते᳚ ।
श्रियः कान्ताय कल्याण निधये निधयेर्थिनाम् ।
श्रीवेङ्कटनिवासाय श्रीनिवासाय मङ्गलम् ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः नीराजनं दर्शयामि ॥
नीराजनानन्तरं शुद्धाचमनीयं समर्पयामि ।
मन्त्रपुष्पम् –
(विशेष मन्त्रपुष्पं पश्यतु ॥ )
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं वि॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
नानासुगन्धपुष्पाणि यथा कालोद्भवानि च ।
पुष्पाञ्जलिं मया दत्तं गृहाण वेङ्कटेश्वर ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः सुवर्ण दिव्य मन्त्रपुष्पं समर्पयामि ॥
प्रदक्षिण नमस्काराः –
यानि कानि च पापानि जन्मान्तरकृतानि च ।
तानि तानि प्रणश्यन्ति प्रदक्षिण पदे पदे ॥
पापोऽहं पापकर्माऽहं पापात्मा पापसम्भवः ।
त्राहि मां कृपया देव शरणागतवत्सल ॥
अन्यथा शरणं नास्ति त्वमेव शरणं मम ।
तस्मात्कारुण्य भावेन रक्ष रक्ष जनार्दन ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः आत्मप्रदक्षिण नमस्कारान् समर्पयामि ॥
उपचार पूजा –
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः ।
छत्रमाच्छादयामि । चामरैर्वीजयामि ।
नृत्यं दर्शयामि । गीतं श्रावयामि ।
वाद्यं घोषयामि । आन्दोलिकानारोहयामि ।
अश्वानारोहयामि । गजानारोहयामि ।
समस्त राजोपचार देवोपचार भक्त्युपचार शक्त्युपचार मन्त्रोपचार पूजाः समर्पयामि ॥
प्रार्थना –
ओं नमो देवदेवाय पूर्वदेवाय खड्गिने ।
श्रीवत्साङ्काय च नमः परस्मै परमात्मने ॥
नमः परस्मै व्यूहोपव्यूहान्तर विभूतये ।
विभवाय नमस्तस्मै विश्वान्तर्यामिणेऽणवे ॥
अर्चावताराय नमोऽजन्मने जन्मभाजिने ।
मायाविने जगत् स्रष्ट्रे लक्ष्मीनारायणात्मने ॥
क्षमा प्रार्थना –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे तमच्युतम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं जनार्दन ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मकः श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामि सुप्रीतो सुप्रसन्नो वरदो भवन्तु ॥
तीर्थम् –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्रीश्रीनिवास पादोदकं पावनं शुभम् ॥
श्रीवेङ्कटेश्वर स्वामि प्रसादं शिरसा गृह्णामि ॥
उद्वासनम् –
यज्ञेन यज्ञमयजन्त देवाः
तानि धर्माणि प्रथमा न्यासन् ।
तेहनाकं महिमानस्सचन्ते
यत्र पूर्वे साध्यास्सन्ति देवाः ॥
ओं श्रीपद्मावती समेत श्रीवेङ्कटेश्वर स्वामिने नमः यथास्थानं उद्वासयामि ॥
ओं शान्तिः शान्तिः शान्तिः ॥
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.