Site icon Stotra Nidhi

Sri Kali Ekakshari Beeja Mantra (Chintamani) – श्री काली एकाक्षरी (चिन्तामणि)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

श्रीगणेशाय नमः । श्रीगुरुभ्यो नमः । हरिः ओम् ।

शुचिः –
अपवित्रः पवित्रोवा सर्वावस्थां गतोऽपि वा ।
यः स्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरः शुचिः ॥

पुण्डरीकाक्ष पुण्डरीकाक्ष पुण्डरीकाक्ष ॥

आचम्य –
क्रीम् । क्रीम् । क्रीम् । (इति त्रिवारं जलं पिबेत्)
ओं काल्यै नमः । (ओष्टौ प्रक्षाल्य)
ओं कपालिन्यै नमः । (ओष्टौ)
ओं कुल्लयै नमः । (हस्तप्रक्षालनं)
ओं कुरुकुल्लायै नमः । (मुखं)
ओं विरोधिन्यै नमः । (दक्षिण नासिका)
ओं विप्रचित्तायै नमः । (वाम नासिका)
ओं उग्रायै नमः । (दक्षिण नेत्रं)
ओं उग्रप्रभायै नमः । (वाम नेत्रं)
ओं दीप्तायै नमः । (दक्षिण कर्णं)
ओं नीलायै नमः । (वाम कर्णं)
ओं घनायै नमः । (नाभिं)
ओं बलाकायै नमः । (हृदयं)
ओं मात्रायै नमः । (मस्तकं)
ओं मुद्रायै नमः । (दक्षिण स्कन्धं)
ओं मितायै नमः । (वाम स्कन्धं)

॥ प्रार्थना ॥

गुरु प्रार्थना –
अखण्डमण्डलाकारं व्याप्तं येन चराचरम् ।
तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥

ज्ञानशक्तिसमारूढः तत्त्वमालाविभूषितः ।
भुक्तिमुक्तिप्रदाता च तस्मै श्रीगुरवे नमः ॥

गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः ।
गुरुस्साक्षात् परब्रह्म तस्मै श्री गुरवे नमः ॥

श्रीगणेश प्रार्थना –
विघ्नेश्वराय वरदाय सुरप्रियाय
लम्बोदराय सकलाय जगद्धिताय ।
नागाननाय श्रुतियज्ञविभूषिताय
गौरीसुताय गणनाथ नमो नमस्ते ॥

वक्रतुण्ड महाकाय सूर्यकोटिसमप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥

श्रीदक्षिणामूर्ति प्रार्थना –
भस्मं व्यापाण्डुराङ्ग शशिशकलधरो ज्ञानमुद्राक्षमाला
वीणापुस्तेर्विराजत्करकमलधरो लोकपट्‍टाभिरामः ।
व्याख्यापीठेनिषण्णा मुनिवरनिकरैः सेव्यमान प्रसन्नः
सव्यालकृत्तिवासाः सततमवतु नो दक्षिणामूर्तिमीशः ॥

श्रीमहाकालभैरव प्रार्थना –
महाकालं यज्जेद्देव्या दक्षिणे धूम्रवर्णकं
बिभ्रतं दण्डखट्वाङ्गौ दंष्ट्राभीममुखं शिशुम् ।
त्रिनेत्रमूर्ध्वकेशं च मुण्डमालाविभूषितं
जटाभारलसच्चन्द्रखण्डमुग्रं ज्वलन्निभम् ॥

॥ सङ्कल्पम् ॥

ओं विष्णुर्विष्णुर्विष्णुः । ओं तत्सत् श्रीमद्भगवतो महापुरुषस्य विष्णोराज्ञया प्रवर्तमानस्य श्रीब्रह्मणोऽह्नि द्वितीय परार्धे श्रीश्वेतवाराहकल्पे वैवस्वतमन्वन्तरे, अष्टाविंशतितमे कलियुगे, कलिप्रथम चरणे जम्बूद्वीपे भरतखण्डे भारतवर्षे पुण्यभूप्रदेशे ___ प्रदेशे ___ संवत्सरे ___ अयणे ___ ऋतुः ___ मासे ___ पक्षे ___ तिथौ, ___ वासरे ___ गोत्रोत्पन्न ___ नामधेयाहं श्रीकालिका देवी प्रीत्यर्थं क्रीमिति एकाक्षरी मन्त्रजपं करिष्ये ।

॥ प्राणानायम्य ॥

क्रीं (इति बीजेन त्रिवारं प्राणायामं कुर्यात्)

॥ अथ काली कवचम् ॥

श्री दक्षिणकालिका कवचं पठतु ।

॥ अथ काली हृदयम् ॥

श्री दक्षिणकाली हृदयं पठतु ।

॥ मन्त्र विनियोगः ॥

अस्य श्री काली एकाक्षरी मन्त्रस्य भैरव ऋषिः उष्णिक् छन्दः श्री दक्षिणकालिका देवता कं बीजं ईं शक्तिः रं कीलकं सर्वाभीष्टसिद्ध्यर्थे जपे विनियोगः ।

ऋष्यादि न्यासः –
ओं भैरव ऋषये नमः शिरसि ।
उष्णिक् छन्दसे नमः मुखे ।
दक्षिणकालिका देवतायै नमः हृदि ।
कं बीजाय नमः गुह्ये ।
ईं शक्तये नमः पादयोः ।
रं कीलकाय नमः नाभौ ।
विनियोगाय नमः सर्वाङ्गे ।

करन्यासः –
ओं क्रां अङ्गुष्ठाभ्यां नमः ।
ओं क्रीं तर्जनीभ्यां नमः ।
ओं क्रूं मध्यमाभ्यां नमः ।
ओं क्रैं अनामिकाभ्यां नमः ।
ओं क्रौं कनिष्ठिकाभ्यां नमः ।
ओं क्रः करतलकरपृष्ठाभ्यां नमः ।

हृदयादिन्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।
ओं भूर्भुवस्सुवः इति दिग्बन्धः ।

व्यापक न्यासः- क्रीं (इति मन्त्रेण त्रिवारं व्यापकं कुर्यात्)

ध्यानम् ।
करालवदनां घोरां मुक्तकेशीं चतुर्भुजाम् ।
कालिकां दक्षिणां दिव्यां मुण्डमालाविभूषिताम् ॥ १ ॥

सद्यश्छिन्नशिरः खड्गवामाधोर्ध्वकराम्बुजाम् ।
अभयं वरदं चैव दक्षिणोर्ध्वाधपाणिकाम् ॥ २ ॥

महामेघप्रभां श्यामां तथा चैव दिगम्बरीम् ।
कण्ठावसक्तमुण्डाली गलद्रुधिरचर्चिताम् ॥ ३ ॥

कर्णावतंसतानीत शवयुग्मभयानकाम् ।
घोरदंष्ट्रां करालास्यां पीनोन्नतपयोधरीम् ॥ ४ ॥

शवानां करसङ्घातैः कृतकाञ्ची हसन्मुखीम् ।
सृक्कद्वयगलद्रक्तधारा विस्फुरिताननाम् ॥ ५ ॥

घोररावां महारौद्रीं श्मशानालयवासिनीम् ।
बालार्कमण्डलाकार लोचनत्रितयान्विताम् ॥ ६ ॥

दन्तुरां दक्षिणव्यापि मुक्तालम्बिक चोच्चयाम् ।
शवरूपमहादेवहृदयोपरिसंस्थिताम् ॥ ७ ॥

शिवाभिर्घोररावाभिश्चतुर्दिक्षुसमन्विताम् ।
महाकालेन च समं विपरीत रतातुराम् ॥ ८ ॥

सुखप्रसन्नवदनां स्मेराननसरोरुहाम् ।
एवं सञ्चिन्तयेत् कालीं सर्वकामसमृद्धिदाम् ॥ ९ ॥

लमित्यादि पञ्चपूजा –
ओं क्रीं कालिकायै नमः लं पृथ्वीतत्त्वात्मकं गन्धं कालिका देवी प्रीतये समर्पयामि ।
ओं क्रीं कालिकायै नमः हं आकाशतत्वात्मकं पुष्पं कालिका देवी प्रीतये समर्पयामि ।
ओं क्रीं कालिकायै नमः यं वायुतत्त्वात्मकं धूपं कालिका देवी प्रीतये आघ्रापयामि ।
ओं क्रीं कालिकायै नमः रं वह्नितत्वात्मकं दीपं कालिका देवी प्रीतये दर्शयामि ।
ओं क्रीं कालिकायै नमः वं जलतत्त्वात्मकं नैवेद्यं कालिका देवी प्रीतये निवेदयामि ।
ओं क्रीं कालिकायै नमः सं सर्वतत्त्वात्मकं सर्वोपचाराणि मनसा परिकल्प्य कालिका देवी प्रीतये समर्पयामि ।

कुल्लुकादि मन्त्राः –
१। कुल्लुका – क्रीं हूं स्त्रीं ह्रीं फट् (शिखा स्थाने द्वादशवारं जपेत्)
२। सेतुः – ओं (इति हृदये स्थाने द्वादशवारं जपेत्)
३। महासेतुः – क्रीं (इति कण्ठस्थाने द्वादशवारं जपेत्)
४। मुखशोधन – क्रीं क्रीं क्रीं ओं ओं ओं क्रीं क्रीं क्रीं(इति सप्तवारं जपेत्)
५। निर्वाण – ओं अं क्रीं ऐम् । अं आं इं ईं उं ऊं ऋं ॠं लुं* लूं* एं ऐं ओं औं अं अः कं खं गं घं ङं चं छं जं झं ञं टं ठं डं ढं णं तं थं दं धं नं पं फं बं भं मं यं रं लं वं शं षं सं हं क्षं ओं (इति नाभिं स्पृशेत्)
६। प्राणयोग – ह्रीं क्रीं ह्रीं (इति हृदये सप्तवारं जपेत्)
७। दीपनी – ओं क्रीं ओं (इति हृदये सप्तवारं जपेत्)
८। निद्राभङ्गः – ईं क्रीं ईं (इति हृदये स्थाने दशवारं जपेत्)
९। अशौचभङ्गः – ओं क्रीं ओं (इति हृदये सप्तवारं जपेत्)
१०। गायत्री – ओं कालिकायै च विद्महे श्मशानवासिन्यै धीमहि तन्नोऽघोरा प्रचोदयात् । (इति हृदये त्रिवारं जपेत्)

एकाक्षरी मन्त्रः – क्रीम् ।

उत्तरन्यासः –
ओं क्रां हृदयाय नमः ।
ओं क्रीं शिरसे स्वाहा ।
ओं क्रूं शिखायै वषट् ।
ओं क्रैं कवचाय हुम् ।
ओं क्रौं नेत्रत्रयाय वौषट् ।
ओं क्रः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ।

जपसमर्पणं –
गुह्यातिगुह्यगोप्त्री त्वं गृहाणास्मत्कृतं जपम् ।
सिद्धिर्भवतु मे देवि त्वत्प्रसादान्महेश्वरि ॥

सर्वं श्रीमहाकाल्यर्पणमस्तु ।

क्षमायाचना –
अपराधसहस्राणि क्रियन्तेऽहर्निशं मया ।
दासोऽयमिति मां मत्वा क्षमस्व परमेश्वरि ॥ १ ॥

आवाहनं न जानामि न जानामि विसर्जनम् ।
पूजां चैव न जानामि क्षम्यतां परमेश्वरि ॥ २ ॥

मन्त्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वरि ।
यत्पूजितं मया देवि परिपूर्णं तदस्तु मे ॥ ३ ॥

बलि मन्त्रः – क्रीं कालीं नारिकेल/जम्बीर बलिं समर्पयामि नमः ।
होम मन्त्रः – क्रीं स्वाहा ।
तर्पण मन्त्रः – क्रीं नमः कालिकां तर्पयामि स्वाहा ।
मार्जन मन्त्रः – क्रीं कालिका देवीं अभिषिञ्चामि नमः ।


इतर श्री कालिका स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments