Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
रणेषु दैत्येषु हतेषु देवाः
पुरा प्रहृष्टाः सहदातृशर्वाः ।
यियक्षवो यज्ञपतिं विनीताः
प्रपेदिरे विष्णुमनन्तवीर्यम् ॥ २-१ ॥
दृष्ट्वा च निद्रावशगं प्रभुं त-
-मधिज्यचापाग्र समर्पितास्यम् ।
आश्चर्यमापुर्विबुधा न कोऽपि
प्राबोधयत्तं खलु पापभीत्या ॥ २-२ ॥
हरेस्तदानीमजसृष्टवम्र्या
मुखार्पणाकुञ्चितचापमौर्वी ।
भग्ना धनुश्चार्जवमाप सद्य-
-स्तेनाभवत्सोऽपि निकृत्तकण्ठः ॥ २-३ ॥
कायाच्छिरस्तुत्पतितं मुरारेः
पश्यत्सु देवेषु पपात सिन्धौ ।
चेतः सुराणां कदने निमग्नं
हाहेति शब्दः सुमहानभूच्च ॥ २-४ ॥
किमत्र कृत्यं पतिते हरौ नः
कुर्मः कथं वेति मिथो ब्रुवाणान् ।
देवान् विधाताऽऽह भवेन्न कार्य-
-मकारणं दैवमहो बलीयः ॥ २-५ ॥
ध्यायेत देवीं करुणार्द्रचित्तां
ब्रह्माण्डसृष्ट्यादिकहेतुभूताम् ।
सर्वाणि कार्याणि विधास्यते नः
सा सर्वशक्ता सगुणाऽगुणा च ॥ २-६ ॥
इत्यूचुषः प्रेरणया विधातु-
-स्त्वामेव वेदा नुनुवुः सुराश्च ।
दिवि स्थिता देवगणांस्त्वमात्थ
भद्रं भवेद्वो हरिणेदृशेन ॥ २-७ ॥
दैत्यो हयग्रीव इति प्रसिद्धो
मयैव दत्तेन वरेण वीरः ।
वेदान् मुनींश्चापि हयास्यमात्र-
-वध्यो भृशं पीडयति प्रभावात् ॥ २-८ ॥
दैवेन कृत्तं हरिशीर्षमद्य
सम्योज्यतां वाजिशिरोऽस्य काये ।
ततो हयग्रीवतया मुरारि-
-र्दैत्यं हयग्रीवमरं निहन्ता ॥ २-९ ॥
त्वमेवमुक्त्वा सदयं तिरोधा-
-स्त्वष्ट्रा कबन्धेऽश्वशिरो मुरारेः ।
सम्योजितं पश्यति देवसङ्घे
हयाननः श्रीहरिरुत्थितोऽभूत् ॥ २-१० ॥
दैत्यं हयग्रीवमहन् हयास्यो
रणे मुरारिस्त्वदनुग्रहेण ।
सदा जगन्मङ्गलदे त्वदीयाः
पतन्तु मे मूर्ध्नि कृपाकटाक्षाः ॥ २-११ ॥
तृतीय दशकम् (३) – महाकाल्यवतारम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.