Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ततो विमानादजविष्णुरुद्रा-
-स्त्वद्गोपुरद्वार्यवरुह्य सद्यः ।
स्त्रियः कृता देवि तवेच्छयैव
सविस्मयास्त्वन्निकटं समीयुः ॥ १०-१ ॥
कृतप्रणामास्तव पादयुग्म-
-नखेषु विश्वं प्रतिबिम्बितं ते ।
विलोक्य साश्चर्यममोघवाग्भिः
पृथक् पृथक् तुष्टुवुरम्बिके त्वाम् ॥ १०-२ ॥
नुतिप्रसन्ना निजसर्गशक्तिं
महासरस्वत्यभिधामजाय ।
रक्षार्थशक्तिं हरये महाल-
-क्ष्म्याख्यां च लीलानिरते ददाथ ॥ १०-३ ॥
गौरीं महाकाल्यभिधां च दत्वा
संहारशक्तिं गिरिशाय मातः ।
नवाक्षरं मन्त्रमुदीरयन्ती
बद्धाञ्जलींस्तान् स्मितपूर्वमात्थ ॥ १०-४ ॥
ब्रह्मन् हरे रुद्र मदीयशक्ति-
-त्रयेण दत्तेन सुखं भवन्तः ।
ब्रह्माण्डसर्गस्थितिसंहृतीश्च
कुर्वन्तु मे शासनया विनीताः ॥ १०-५ ॥
मान्या भवद्भिः खलु शक्तयो मे
स्याच्छक्तिहीनं सकलं विनिन्द्यम् ।
स्मरेत मां सन्ततमेवमुक्त्वा
प्रस्थापयामासिथ तांस्त्रिमूर्तीन् ॥ १०-६ ॥
नत्वा त्रयस्ते भवतीं निवृत्ताः
पुंस्त्वं गता आरुरुहुर्विमानम् ।
सद्यस्तिरोधाः स सुधासमुद्रो
द्वीपो विमानश्च तिरोबभूवुः ॥ १०-७ ॥
एकार्णवे पङ्कजसन्निधौ च
हतासुरे ते खलु तस्थिवांसः ।
दृष्टं नु सत्यं किमु बुद्धिमोहः
स्वप्नो नु किं वेति च न व्यजानन् ॥ १०-८ ॥
ततस्त्रयस्ते खलु सत्यलोक-
-वैकुण्ठकैलासकृताधिवासाः ।
ब्रह्माण्डसृष्ट्यादिषु दत्तचित्ता-
-स्त्वां सर्वशक्तामभजन्त देवि ॥ १०-९ ॥
सुधासमुद्रं तरलोर्मिमालं
स्थानं मणिद्वीपमनोपमं ते ।
मञ्चे निषण्णां भवतीं च चित्ते
पश्यानि ते देवि नमः प्रसीद ॥ १०-१० ॥
एकादश दशकम् (११) – ब्रह्मनारद संवादम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.
స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.
Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)
Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".
విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.
Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.