Site icon Stotra Nidhi

Sankata Hara Chaturthi Puja Vidhanam – सङ्कटहर चतुर्थी पूजा विधानम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

पुनः सङ्कल्पम् –
पूर्वोक्त एवं गुणविशेषण विशिष्टायां शुभतिथौ मम सर्वसङ्कटनिवृत्तिद्वारा सकलकार्यसिद्ध्यर्थं ___ मासे कृष्णचतुर्थ्यां शुभतिथौ श्रीगणेश देवता प्रीत्यर्थं यथा शक्ति सङ्कटहरचतुर्थी पुजां करिष्ये ।

ध्यानम् –
एकदन्तं महाकायं तप्तकाञ्चनसन्निभम् ।
लम्बोदरं विशालाक्षं वन्देऽहं गणनायकम् ॥
आखुपृष्ठसमासीनं चामरैर्वीजितं गणैः ।
शेषयज्ञोपवीतं च चिन्तयामि गजाननम् ॥
ओं श्रीविनायकाय नमः ध्यायामि ।

आवाहनम् –
आगच्छ देव देवेश सङ्कटं मे निवारय ।
यावत्पूजा समाप्येत तावत्त्वं सन्निधौ भव ॥
ओं गजास्याय नमः आवाहयामि ।

आसनम् –
गणाधीश नमस्तेऽस्तु सर्वसिद्धिप्रदायक ।
आसनं गृह्यतां देव सङ्कटं मे निवारय ॥
ओं विघ्नराजाय नमः आसनं समर्पयामि ।

पाद्यम् –
उमापुत्र नमस्तेऽस्तु नमस्ते मोदकप्रिय ।
पाद्यं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं लम्बोदराय नमः पाद्यं समर्पयामि ।

अर्घ्यम् –
लम्बोदर नमस्तेऽस्तु रत्नयुक्तं फलान्वितम् ।
अर्घ्यं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं शङ्करसूनवे नमः अर्घ्यं समर्पयामि ।

आचमनीयम् –
गङ्गादिसर्वतीर्थेभ्यः आहृतं जलमुत्तमम् ।
गृहाणाचमनीयार्थं सङ्कटं मे निवारय ॥
ओं उमासुताय नमः आचमनीयं समर्पयामि ।

पञ्चामृत स्नानम् –
पयोदधिघृतं चैव शर्करामधुसम्युतम् ।
पञ्चामृतं गृहाणेदं सङ्कटं मे निवारय ॥
ओं वक्रतुण्डाय नमः पञ्चामृतस्नानं समर्पयामि ।

शुद्धोदक स्नानम् –
कवेरजासिन्धुगङ्गा कृष्णागोदोद्भवैर्जलैः ।
स्नापितोऽसि मया भक्त्या सङ्कटं मे निवारय ॥
ओं उमापुत्राय नमः शुद्धोदकस्नानं समर्पयामि ।

वस्त्रम् –
इभवक्त्र नमस्तुभ्यं गृहाण परमेश्वर ।
वस्त्रयुग्मं गणाध्यक्ष सङ्कटं मे निवारय ॥
ओं शूर्पकर्णाय नमः वस्त्राणि समर्पयामि ।

उपवीतम् –
विनायक नमस्तुभ्यं नमः परशुधारिणे ।
उपवीतं गृहाणेदं सङ्कटं मे निवारय ॥
ओं कुब्जाय नमः यज्ञोपवीतं समर्पयामि ।

गन्धम् –
ईशपुत्र नमस्तुभ्यं नमो मूषिकवाहन ।
चन्दनं गृह्यतां देव सङ्कटं मे निवारय ॥
ओं गणेश्वराय नमः गन्धान् धारयामि ।

अक्षतान् –
घृतकुङ्कुम सम्युक्ताः तण्डुलाः सुमनोहराः ।
अक्षतास्ते नमस्तुभ्यं सङ्कटं मे निवारय ॥
ओं विघ्नराजाय नमः अक्षतान् समर्पयामि ।

पुष्पम् –
चम्पकं मल्लिकां दूर्वाः पुष्पजातीरनेकशः ।
गृहाण त्वं गणाध्यक्ष सङ्कटं मे निवारय ॥
ओं विघ्नविनाशिने नमः पुष्पैः पूजयामि ।

पुष्प पूजा –
ओं सुमुखाय नमः ।
ओं एकदन्ताय नमः ।
ओं कपिलाय नमः ।
ओं गजकर्णकाय नमः ।
ओं लम्बोदराय नमः ।
ओं विकटाय नमः ।
ओं विघ्नराजाय नमः ।
ओं विनायकाय नमः ।
ओं धूमकेतवे नमः ।
ओं गणाध्यक्षाय नमः ।
ओं फालचन्द्राय नमः ।
ओं गजाननाय नमः ।
ओं वक्रतुण्डाय नमः ।
ओं शूर्पकर्णाय नमः ।
ओं हेरम्बाय नमः ।
ओं स्कन्दपूर्वजाय नमः ।

एकविंशति दूर्वायुग्म पूजा –
गणाधिपाय नमः दूर्वायुग्मं समर्पयामि ।
उमापुत्राय नमः दूर्वायुग्मं समर्पयामि ।
अघनाशनाय नमः दूर्वायुग्मं समर्पयामि ।
एकदन्ताय नमः दूर्वायुग्मं समर्पयामि ।
इभवक्त्राय नमः दूर्वायुग्मं समर्पयामि ।
मूषिकवाहनाय नमः दूर्वायुग्मं समर्पयामि ।
विनायकाय नमः दूर्वायुग्मं समर्पयामि ।
ईशपुत्राय नमः दूर्वायुग्मं समर्पयामि ।
सर्वसिद्धिप्रदाय नमः दूर्वायुग्मं समर्पयामि ।
लम्बोदराय नमः दूर्वायुग्मं समर्पयामि ।
वक्रतुण्डाय नमः दूर्वायुग्मं समर्पयामि ।
मोदकप्रियाय नमः दूर्वायुग्मं समर्पयामि ।
विघ्नविध्वंसकर्त्रे नमः दूर्वायुग्मं समर्पयामि ।
विश्ववन्द्याय नमः दूर्वायुग्मं समर्पयामि ।
अमरेशाय नमः दूर्वायुग्मं समर्पयामि ।
गजकर्णकाय नमः दूर्वायुग्मं समर्पयामि ।
नागयज्ञोपवीतिने नमः दूर्वायुग्मं समर्पयामि ।
फालचन्द्राय नमः दूर्वायुग्मं समर्पयामि ।
परशुधारिणे नमः दूर्वायुग्मं समर्पयामि ।
विघ्नाधिपाय नमः दूर्वायुग्मं समर्पयामि ।
विद्याप्रदाय नमः दूर्वायुग्मं समर्पयामि ।

धूपम् –
लम्बोदर महाकाय धूम्रकेतो सुवासितम् ।
धूपं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं विकटाय नमः धूपं आघ्रापयामि ।

दीपम् –
विघ्नान्धकार संहार कारक त्रिदशाधिप ।
दीपं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं वामनाय नमः दीपं दर्शयामि ।

नैवेद्यम् –
मोदकापूपलड्डुक पायसं शर्करान्वितम् ।
पक्वान्नं सघृतं देव नैवेद्यं प्रतिगृह्यताम् ॥
ओं सर्वदेवाय नमः अमृतोपहारं समर्पयामि ।

फलम् –
नारिकेल फलं द्राक्षा रसालं दाडिमं शुभम् ।
फलं गृहाण देवेश सङ्कटं मे निवारय ॥
ओं सर्वार्तिनाशिने नमः फलं समर्पयामि ।

ताम्बूलम् –
क्रमुकैलालवङ्गानि नागवल्लीदलानि च ।
ताम्बूलं गृह्यतां देव सङ्कटं मे निवारय ॥
ओं विघ्नहर्त्रे नमः ताम्बूलं समर्पयामि ।

नीराजनम् –
कर्पूरानलसम्युक्तं अशेषाघौघनाशनम् ।
नीराजनं गृहाणेश सङ्कटान्मां विमोचय ॥
ओं श्रीविनायकाय नमः कर्पूरनीराजनं समर्पयामि ।

पुष्पाञ्जलिः –
चम्पकाशोकवकुल पारिजात भवैः सुमैः ।
पुष्पाञ्जलिं गृहाणेमं सङ्कटान्मां विमोचय ॥
ओं देवोत्तमाय नमः सुवर्णपुष्पं समर्पयामि ।

नमस्कारम् –
त्वमेव विश्वं सृजसीभवक्त्र
त्वमेव विश्वं परिपासि देव ।
त्वमेव विश्वं हरसेऽखिलेश
त्वमेव विश्वात्मक आविभासि ॥

नमामि देवं गणनाथमीशं
विघ्नेश्वरं विघ्नविनाशदक्षम् ।
भक्तार्तिहं भक्तविमोक्षदक्षं
विद्याप्रदं वेदनिदानमाद्यम् ॥

ये त्वामसम्पूज्य गणेश नूनं
वाञ्छन्ति मूढाः विहितार्थसिद्धिम् ।
त एव नष्टा नियतं हि लोके
ज्ञातो मया ते सकलः प्रभावः ॥

ओं धूम्राय नमः प्रार्थना नमस्कारान् समर्पयामि ।

अर्घ्यम् –
तिथीनामुत्तमे देवि गणेशप्रियवल्लभे ।
सङ्कटं हर मे देवि गृहाणार्घ्यं नमोऽस्तु ते ॥
चतुर्थीतिथिदेवतायै नमः इदमर्घ्यम् । (इति सप्तवारं)

लम्बोदर नमस्तुभ्यं सततं मोदकप्रिय ।
सङ्कटं हर मे देव गृहाणार्घ्यं नमोऽस्तु ते ॥
सङ्कटहर विघ्नेशाय नमः इदमर्घ्यम् । (इति सप्तवारं)

क्षीरोदार्णव सम्भूत अत्रिगोत्रसमुद्भव ।
गृहाणार्घ्यं मया दत्तं रोहिणीसहितः शशिन् ॥
चन्द्राय नमः इदमर्घ्यम् । (इति सप्तवारं)

क्षमाप्रार्थन –
यस्य स्मृत्या च नामोक्त्या तपः पूजा क्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे गजाननम् ॥
मन्त्रहीनं क्रियाहीनं भक्तिहीनं गणाधिप ।
यत्पूजितं मया देव परिपूर्णं तदस्तु ते ॥

समर्पणम् –
अनया ध्यान आवाहनादि षोडशोपचार पूजया भगवान् सर्वात्मिकः श्री गणेशः सुप्रीतो सुप्रसन्नो वरदो भवन्तु । इदं सङ्कटहरचतुर्थी पूजा गणेशार्पणमस्तु ।

तीर्थप्रसाद स्वीकरण –
अकालमृत्युहरणं सर्वव्याधिनिवारणम् ।
समस्तपापक्षयकरं श्री महागणाधिपति पादोदकं पावनं शुभम् ॥
श्री महागणपति प्रसादं शिरसा गृह्णामि ॥

उद्वासनम् –
गच्छ सत्त्वमुमापुत्र ममानुग्रहकारणात् ।
पूजितोऽसि मया भक्त्या गच्छ स्वस्थानकं प्रभो ॥
गणपतये नमः यथास्थानं उद्वासयामि ।
शोभनार्थे क्षेमाय पुनरागमनाय च ।

ओं शान्तिः शान्तिः शान्तिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments