Site icon Stotra Nidhi

Devi Narayaniyam Dasakam 4 – चतुर्थ दशकम् (४) – मधुकैटभवधम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

त्वं तामसी सुप्तरमाधवाङ्गजा
श्यामा रुचा मोहनताम्रलोचना ।
एकार्णवे घोररणोत्सुकान् हरिं
दैत्यौ च तौ स्मेरमुखी समैक्षथाः ॥ ४-१ ॥

पश्यत्यजे बाहुरणं मुरारिणा
कृत्वा मधुः श्रान्तिमवाप सत्वरम् ।
अभ्येत्य युद्धं कुरुते स्म कैटभः
श्रान्ते च तस्मिन्नकृताहवं मधुः ॥ ४-२ ॥

एवं मुहुः सङ्गरविश्रमावुभौ
पर्यायतो वर्षसहस्रपञ्चकम् ।
ग्लानिं विना चक्रतुरच्युतः क्लमा-
-द्विश्रान्तिमिच्छन्नसुरौ जगाद तौ ॥ ४-३ ॥

श्रान्तेन भीतेन च बालकेन च
प्रभुः पुमान्नैव करोति सम्युगम् ।
मध्येरणं द्वौ कृतविश्रमौ युवा-
-मेकः करोम्येव निरन्तराहवम् ॥ ४-४ ॥

ज्ञात्वा हरिं श्रान्तमुभौ विदूरतः
सन्तस्थतुर्विश्रमसौख्यवांस्ततः ।
त्वामेव तुष्टाव कृपातरङ्गिणीं
सर्वेश्वरीं दैत्यजयाय माधवः ॥ ४-५ ॥

देवि प्रसीदैष रणे जितोऽस्म्यहं
दैत्यद्वयेनाब्जभवं जिघांसुना ।
सर्वं कटाक्षैस्तव साध्यमत्र मां
रक्षेति वक्तारमभाषथा हरिम् ॥ ४-६ ॥

युद्धं कुरु त्वं जहि तौ मया भृशं
सम्मोहितौ वक्रदृशेत्ययं त्वया ।
सञ्चोदितो हृष्टमना महार्णवे
तस्थौ रणायाययतुश्च दानवौ ॥ ४-७ ॥

भूयोऽपि कुर्वन् रणमच्युतो हसन्
कामातुरौ ते मुखपद्मदर्शनात् ।
तावाह तुष्टोऽस्म्यतुलौ रणे युवां
ददाम्यहं वां वरमेष वाञ्छितम् ॥ ४-८ ॥

तावूचतुर्विद्धि हरे न याचका-
-वावां ददावस्तव वाञ्छितं वरम् ।
नासत्यवाचौ स्व इतीरितो हरि-
-स्त्वां संस्मरन् शत्रुजिगीषयाऽब्रवीत् ॥ ४-९ ॥

मह्यं वरं यच्छतमद्य मे यतो
वध्यौ युवां स्यातमितीरितावुभौ ।
दृष्ट्वाऽप्सु लीनं सकलं समूचतु-
-स्त्वं सत्यवाङ्नौ जहि निर्जले स्थले ॥ ४-१० ॥

अस्त्वेवमित्यादृतवाङ्मुदा हरिः
स्वोरौ पृथावुन्नमिते जलोपरि ।
कृत्वाऽरिणा तच्छिरसी तदाऽच्छिन-
-त्स्वच्छन्दमृत्यू तव मायया हतौ ॥ ४-११ ॥

द्वेषश्च रागश्च सदा ममाम्बिके
दैत्यौ हृदि स्तोऽत्र विवेकमाधवः ।
आभ्यां करोत्येव रणं जयत्वयं
तुभ्यं महाकालि नमः प्रसीद मे ॥ ४-१२ ॥

पञ्चम दशकम् (५) – सुद्युम्नकथा >>


सम्पूर्ण देवी नारायणीयम् पश्यतु ।

మా ప్రచురణ: "శ్రీ బగళాముఖీ స్తోత్రనిధి (తాత్పర్య సహితం)" ప్రింటింగు పూర్తి అయి కొనుగోలుకు సిద్ధంగా ఉంది.

స్తోత్రనిధి (తెలుగు) వాట్సాప్ ఛానల్ : మా తెలుగు వాట్సాప్ ఛానల్ ని ఫాలో చేయడానికి ఇక్కడ క్లిక్ చేయండి.

Support this Dharma Karya : If you find value in the Stotranidhi collection, please consider supporting this work. You can make a contribution through these links - PhonePe/GooglePay/BHIM (within India) or Paypal (outside India)

Buy Prabhata Stotranidhi Book: A single book with important stotras of Devatas is available in 4 languages - "తెలుగు" , "ಕನ್ನಡ" , "देवनागरि" , "English (IAST)".

విప్రులకు, ద్విజులకు విజ్ఞప్తి : మంత్ర అనుష్ఠానం లేక నేటి కాలంలో ధర్మాచరణ క్షీణిస్తూ ఉన్నది. దయచేసి మీకు ఉపదేశం ఉన్న మంత్రం కనీసం లక్ష జపం చేయండి. మీకు అతిదగ్గరలో ఉన్న దేవాలయానికి ప్రతిరోజూ వెళ్ళి అక్కడి దేవత మంత్రాన్ని కనీసం 108 జపంచేసి, ఆ దేవత బలాన్ని వృద్ధి చేయండి. దేవత అనుగ్రహం ఉంటేనే ఆ ప్రాంతంలో ధర్మం వర్ధిల్లుతుంది.

Important message to Dharmikas : Please visit your nearest Devalayam and chant mantra of that Devata atleast 108 times daily in that temple. When Devata becomes powerful, it will automatically protect Dharma.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments